एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० २४]
१९९
पातंजलयोगसूत्राणि।
स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैवं प्रज्ञारूपमवधार्येत । तस्मा- प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति । एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्रयमप्येतजातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तरधिगतः पुरु[१]षः ॥ २३ ॥ कुतश्च- तदसंख्येयवासनाभिश्चित्रमपि परार्थ संहत्यकारित्वात् ॥ २४ ॥ तदेतञ्चित्तमसंख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं न स्वार्थ संहत्यकारित्वाद्गृहवत् । संहत्य- कारिणा चित्तेन न स्वार्थेन भवितव्यं, न [२]सुखचित्तं सुखार्थ न ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थे-
यदि युक्तिबोधितोऽपि वै[३]यात्याद्वदेत्तत्र हेतुमाह --स चेदात्मरूपोऽर्थश्चित्तमात्रं स्यान्न तु ततो व्यतिरिक्तस्ततः कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत स्वात्मनि वृत्तिविरोधात् । उपसंहरति--तस्मादिति । समीचीनोपदेशेनानुकम्पिता भवन्तीत्याह--एव[४]मिति । जातितः स्वभावत इत्यर्थः || २३ ||
चित्तातिरिक्तात्मसद्भावे हेत्वन्तरमवतारयति--कु[५]तश्चेति । तदसंख्येयवासना- भिचिवमपि परार्थे संहत्यकारित्वात् । यद्यप्यसंख्येयाः कर्मवासनाः क्लेशवासनाच चित्तमेवाधिशेरते नतु पुरुषम् । तथा च वासनाधीना विपाकाश्चित्ताश्रयतया चित्तस्य भोक्ततामावहन्ति, भोक्तुरर्थे च भोग्यमिति सर्व चित्तार्थ प्रातं, तथाऽपि तच्चित्तमसंख्येय- वासनाविचित्रमपि परार्थम् । कस्मात् । संहत्यकारित्वादिति सूत्रार्थः । व्याचष्टे-- तदेतदिति । सादेतचित्तं संहत्यापि करिष्यति स्वार्थ च भविष्यति कः खलु विरोध इति यदि कश्चिद्व्यात्तं प्रत्याह---संहत्यकारिणेति । सु[६]खचित्तमिति भोगमुपलक्षयति । तेन [७]दुःखचित्तमपि द्रष्टव्यम् । ज्ञानमित्यपवर्ग उक्तः । एतदुक्तं भवति-सुखदुःखे चित्ते प्रतिकूलानुकलात्मके नाऽऽत्मनि संभवतः । स्वात्मनि वृत्तिविरोधात् । न चान्योऽपि संहत्यकारी साक्षात्परम्परया वा सुखदुःखे विदधानस्ताभ्यामनुकूलनीयः प्रतिकूलनीयो वा । तस्माद्यः साक्षात्परम्परया वा न सुखदुःखयोाप्रियते स एवाऽऽभ्यामनुकूलनीयः प्रतिकूलनीयो वा । स च नित्योदासीनः पुरुष एव-