एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
[४ कैवल्पपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-
मनो हि मन्तव्येनार्थेनोपरक्तं, [१]तत्स्वयं च विषयत्वाद्विष- यिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसंबद्धं, तदेतश्चित्तमेव द्रष्टृ- दृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विष- यात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । न्तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । अपरे चित्तमात्रमेवेदं सर्वे नास्ति खल्वयं गवादिर्घटादिश्च सका- रणो लोक इति । अनुकम्पनीयास्ते । कस्मात्, अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिमज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्याऽऽलम्बनीभूतत्वादन्यः द्रष्टच्छायापन्त्या तदनुरक्तं चित्तं द्रष्टारमपि प्रत्यक्षेणावस्थापयति । अस्ति हि [२]त्र्याकारं ज्ञानं नीलमहं [३]संप्रत्येमीति । तस्माज्ज्ञेयवत्तज्ज्ञाताऽपि प्रत्यक्षसिद्धोऽपि न विविच्यावस्थापितो यथा जले चन्द्रमसो बिम्बम् । न त्वेतावता तदप्रत्यक्षम् । न चास्य जलगतत्वे तदप्रमा- णमिति चन्द्ररूपेऽप्यप्रमाणं भवितुमर्हति । तस्माच्चित्तप्रतिबिम्बतया[४]बिम्बतया चैतन्यगोचराऽपि चित्तवृत्तिर्न चैतन्यागोचरेति । तदिदं सर्वार्थत्वं चित्तस्येति । तदेतदाह--मनो हीति । न केवलं तदाकारापत्त्या मन्तव्येनार्थेनोपरक्तं मनोऽपि तु स्वयं चेति । चकारो भिन्नक्रमः पुरुषेणेत्यस्यानन्तरं द्रष्टव्यः । तच्छायापत्तिः पुरुषस्य वृत्तिः ।
इयं च चैतन्यच्छायापत्तिश्चित्तस्य पैनाशिकैरभ्युपेतन्या । कथमन्यथा चिते चैतन्य-
मेत आरोपयांबभूवुरित्याह-तदनेनेति । केचिद्वैनाशिका बाह्यार्थवादिनः । अपरे विज्ञा-
नमात्रवादिनः । ननु यदि चित्तमेव द्रष्ट्राकारं दृश्षाकारं चानुभूयते हन्त चित्तादभिन्ना.
वेवाऽऽस्तां द्रष्टृदृश्यौ ।
यथाऽऽहु:-"अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते" इति ||
तत्कथमेतेऽनुकम्पनीया इत्यत आह–समाधिप्रज्ञायामिति । ते खलूक्ताभिरुपप- त्तिभिश्चित्तातिरिक्तं पुरुष[५]मभ्युपग[६]म्याप्यष्टाङ्गयोगोपदेशेन समाधिप्रज्ञायामात्मगोचरायामव- तार्य बोधयितव्याः । तद्यथा-समाधिप्रज्ञायां प्रज्ञेयोऽर्थ आत्मा प्रतिबिभ्बीभूतोऽन्यः कस्मात्तस्याऽऽत्मन आलम्बनीभूतत्वात् । अथ चित्तादभिन्नमेव कस्मान्नाऽऽलम्बनं भवतीति|