पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० २२-२३] पातञ्जलयोगसूत्राणि । कथम्-- चितेरप्रतिसंक्रमायास्तदाकारा- पत्तौ स्वबुद्धिसंवेदनम् ॥ २२॥ अपरिणामिनी| हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति । तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते । तथा चोक्तम्- "न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते " ॥ इति ॥ २२ ॥ अतश्चैतदभ्युपगम्यते- द्रष्ट्रदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ कथमिति । सूत्रेणोत्तरमाह-चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् । यत्तदवोचद्वृत्तिसारुप्यमितरत्रेति तदितः समुत्थितम् । चितेः स्वबुद्विसंवेदन्ं बुद्धेस्तदाकारापत्तौ चितिप्रतिबिम्बाधारतया तद्रूपतापत्तौ सत्याम् | यथा हि चन्द्रमसः क्रिया- मन्तरणापि संक्रान्तचन्द्रप्रतिबिम्बममलं जलमचलं चलमिवाऽऽलवालमरालमित्र चन्द्रमसमवभासयति एवं विनाऽपि चितिव्यापारमुपसंक्रान्तचितिप्रतिबिम्बं चित्तं स्वगतया क्रियया क्रियावतीमसंगतामपि संगतां चितिशक्तिमवभासयद्भोग्यभावमासादयद्भोक्तृभावमापादयति तस्या इति सूत्रार्थः । भाष्यमप्येतदर्थमसकृत्तत्र तत्र व्याख्यातमिति न व्याख्यातमत्र । बुद्धिवृत्यविशिष्टत्वे ज्ञानवृत्तेरागममुदाहरति--तथा चोक्तं-न पातालमिति । शाश्वतस्य शिवस्य ब्रह्मणो विशुद्धस्वभावस्य चितिच्छायापन्नां मनोवृत्तिमेव चितिच्छायापन्नत्वाचिते. रप्यवशिष्टां गुहां वेदयन्ते । तस्यामेव गुहायां तद्गुह्यं ब्रह्म तदपनये तु स्वयंप्रकाशमनावरणमनुपसर्गं प्रद्योतते चरमदेहस्य भगवत इति ॥ २२ ॥ तदेवं दृश्यत्वेन चित्तस्य परिणामिनस्तदतिरिक्तः पुमानपरिणतिधर्मोपपादितः संप्रति लोकप्रत्यक्षमपन्न प्रमाणयति--अतश्चैतदिति । अवश्यं चैतदित्यर्थः । द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् । यथा हि नीलाद्यनुरक्तं चित्तं नीलाद्यर्थं प्रत्यक्षेणैवावस्थापयति एवं १ क. ख. च, ज. कारमा । २ क. वाळं म । ३-स्व. ज. पनम ।