पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९६ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ४ कैवल्यपादे- स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति- चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्र- सङ्गः स्मृतिसंकरश्च ॥ २१ ॥ अथ चित्तं चेञ्चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः। स्मृतिसंकरश्च, यावन्तो बुद्धिबुदीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति । तत्संकराचैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिमतिसंवेदिनं पुरुषमपलषद्भिर्वैनाशिकः सर्वमेवाऽऽकुलीकृतम् । ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते । केचित्तु सत्त्वमात्रमपि परिकल्प्यास्ति स सत्त्वो य एतान्पञ्च स्कन्धानिक्षिप्याभ्यांच प्रतिसंदधातीत्युक्त्वा तत एव पुनस्त्रस्यन्ति । तथा स्कन्धानां महन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापड्नुवते । सांख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमपयन्तीति ॥ २१॥ पुनर्नाशिकमुत्थापयति-स्यान्मतिः । मा भूदृश्यत्वेन स्वसंवेद॑नम् । एवमप्यात्मा म मिध्यति । स्वसंतानवर्तिना चरमचित्तक्षणेन स्वरसनिरुद्धस्वजनकचित्तक्षणग्रहणादित्यर्थः । समं च तज्ज्ञानत्वेनानन्तरं चाव्यवहितत्वेन समनन्तरं तेन । चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च । बुद्धिरिति चित्तमित्यर्थः । नागृहीता चरमा बुद्धिः पूर्वबुद्धिग्रहणसमर्था । नहि बुद्ध्याऽसंबद्धा पूर्वबुद्धिर्बुद्धा भवितुमर्हति । न ह्यगृहीतद्पडो दण्डिनमवगन्तुमर्हति । तस्मादनवस्थेति । विज्ञानवेदनासंज्ञारूपसंस्कारों स्कन्धाः । सांख्ययोगादयः प्रवादाः सांख्याश्च योगाश्च त एवाऽऽदयो येषां वैशेषिकादिप्रवादाना ते सांख्ययोगादयः प्रवादाः । सुगममन्यत् ॥ २१ ॥ स्यादेतत् । यदि चित्तं न स्वाभासं नापि चित्तान्तरवेद्यमात्मनाऽपि कथं भोक्ष्यते चित्तम् । न खल्वात्मनः स्वयंप्रकाशस्याप्यस्ति काचित्क्रिया । न च तामन्तरेण कर्ताः न चासंबद्धश्चित्तेन कर्मणा तस्य भोक्ताऽतिप्रसङ्गादित्याशयवान्पृच्छति- १ ख. गे. °ण गृ । २ ग, य. उ. च. ज, 'चिसत्व । ३ ग. महानि ! ४ क, दन स्वप्रकाशेन । ए° । ५ कं. राः पञ्च स्क।