पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
[ ४ कैवल्यपादे-
. वाचस्पतिकृतटीकासंघालतव्यासभाष्यसमेतानि-

 

यदि चित्तवत्लभुरपि पुरुषः परिणमेत्ततस्तद्विषयाश्चित्तवृ-
तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः । सदाज्ञातत्वं तु मन-
सस्तामोः पुरुषस्यापरिणामित्वमनुमापयति ॥ १८ ॥
स्थादाशङ्का चित्तमेव स्वाभासं विषयाभासं चे भविष्यती-
त्यमिवत्--

  

न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥
यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि
तथा मनोऽपि प्रत्येतव्यम् । .
न चाग्निरत्र दृष्टान्तः । न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाश-


ज्ञातविषय एव त्वयम् । तस्मादपरिणामी । ततश्च परिणामिभ्योऽतिरिच्यत इति । सदेतदाह-यदि चित्तवदिति । सदा ज्ञातत्वं तु मनसः सवृत्तिकस्य तस्य यः

प्रभुः स्वामी भोक्तेति यावत् । तस्य प्रभोः पुरुषस्यापरिणामित्वमनुमापयति । तथाचा- परिणामिनस्तस्य पुरुषस्य परिणामिनश्चित्तानेद इति भावः ॥ १८ ।।  अत्र वैनाशिकमुत्थापयति-स्थादाशड्रेति । अयमर्थः-स्यादेतदेवं यदि चित्त- मात्मनो विषयः स्यात् , अपि तु स्वप्रकाशमेतद्विषयाभासं पूर्वचित्तं प्रतीत्य समुत्पन्नं तत्कुतः पुरुषस्य सदाज्ञातविषयत्वं कुतस्तरां वाऽपरिणामितया परिणामिनश्चित्ताद्भेद इति । न तत्स्वाभासं दृश्यत्वात् । भदेतदेवं यदि स्वसंवेदनं चितं स्यान्न त्वेतदस्ति । तद्धि परिणामितया नीलादिवदनुभवव्याप्यं यच्चानुभवव्याप्यं न तत्स्वाभासं भवितुमर्हति

स्वात्मनि वृत्तिविरोधात् । न हि तदेव क्रिया च कर्मकारकं च । नहि पाकः पच्यते छिदा या छिद्यते । पुरुषस्त्वपरिणामी नानुभवकर्मेति नास्मिन्स्वयंप्रकाशता न युज्यते । अपराधीनप्रकाशता ह्यस्य स्वयंप्रकाशता नानुभवकर्मता । तस्मादृश्यत्वाद्दर्शनकर्भ चित्तं न स्वाभासम् । आत्मप्रकाशप्रतिबिम्बतयैव चितस्य तद्वृत्तिविषयाः प्रकाशन्त इति भावः ।

 ननु दृश्योऽग्निः स्वयंप्रकाशश्च । नहि यथा घटादयोऽग्निना व्यज्यन्त एवमग्नि. रग्न्यन्तरेणे यत आह -न चाग्निरत्रेति । कस्मात् । नहीति । मा नामानिरग्न्यन्त रात्प्रकाशिष्ट विज्ञानात्तु प्रकाशत इति न स्वयं प्रकाशत इति न व्यभिचार इत्यर्थः ।


  १ म. व उ. मैन तर १२ क. घ. च वैशेषिकाण चिनात्मवादिनां च भ' । . च वैनाशिकानां चित्तात्मवादिनां म । ३ ग. घ. ङ. व्यत्य'। १ ज 'त् , न त्वेपदस्ति । अ'। ५ ख. झ. म च क.। ६ ख. "ना यु"। ७ ख. झ. बिम्बिस्यैा । . ज. तयारी चि। ९ ज. झ. शइ।