पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू०१७-१८] पातञ्जलयोगसूत्राणि । तदुपरागापेक्षित्वाचित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥ अयस्कान्तमणिकल्पा विषया अय:सधर्मकं चित्तमभिसंबन्ध्योपरञ्जयन्ति । येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः । वस्तुनो ज्ञाताज्ञातस्वरूपत्वात्परिणामि चित्तम् ॥ १७॥ ____ यस्य तु तदेव चित्तं विषयस्तस्य- सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रग्नो: । पुरुषस्यापरिणामित्वात्॥ १८॥ स्यादेतदर्थश्चेत्स्वतन्त्रः, स च जडस्वभाव इति न कदाचित्प्रकाशेत । प्रकाशने पा जडत्वमप्यस्यापगतमिति भावोऽपपगच्छेत् । न जातु स्वभावमपहाय भावो वर्तितुमर्हति । न चेन्द्रियाद्याधेयो जडस्वभावस्यार्थस्य धर्मः प्रकाशंत इति सांप्रतम् । अर्थधर्मत्वे नीलत्वादिवत्सर्वपुरुषसाधारण इत्येकः शास्त्रार्थ इति सर्व एव विद्वांसः प्रसज्जेरन्न जाल्मः कश्चिदस्ति । न चातीतानागतयोर्धर्म: प्रत्युत्पन्नो युक्तः । तस्मात्स्वतन्त्रोऽर्थ उपलम्भवि- षय इति मनोरथमात्रमेतदित्यत आह-तदुपरागापेक्षित्वाचित्तस्य वस्तु ज्ञाताज्ञातम् । जडस्वभावोऽप्यर्थ इन्द्रियप्रणाडिकया चित्तमुपरजयति । तदेवंभूतं चित्तदर्पणमुसंक्रान्तप्रतिबिम्बा चितिशक्ति:श्चित्तमर्थोपरक्तं चेतयमानार्थमनुभवति, न त्यर्थे किचित्प्राकट्य दिकमाधत्ते । नाप्यसंबद्धा चित्तेन तत्प्रतिबिम्बसंक्रान्तेरुक्तत्वादिति । यद्यपि च सर्वगतत्वाच्चित्तस्य चेन्द्रियस्य चाऽऽहंकारिकस्य विषये नास्ति संबन्धस्तथाऽपि यत्र शरीरे वृत्तिनच्चित्तं तेन सह संबन्धो विषयाणामित्ययस्कान्तमणिकल्पा इत्युक्तम् । अयःसधर्मकं चित्तमिति । इन्द्रियप्रणाडिकयाऽभिसंबन्ध्योपरञ्जपन्ति । अत एव चित्तं परिणामीत्याह्---वस्तुन इति ॥ १७ ॥ तदेवं चित्तव्यतिरेकिणमर्थमवस्थाप्य तेभ्यः परिणतिधर्मकेभ्यो व्यतिरिक्तमात्मानमाद. र्शयितुं तद्वैधर्म्यपरिणामित्वमस्य- वक्तुं पूरयित्वा सूत्रं पठति ---यस्य तु तदेष चित्तं विषयस्तस्य-सदा ज्ञाताश्चित्तवृत्त्यस्तत्प्रभो: पुरुषस्यापरिणामित्वात् । क्षिप्तमूढविक्षिप्तैकाग्रतावस्थितं चित्तमा निरोधात्सर्वदा पुरुषेणानुभूयते वृत्तिमत्तत्कस्य हेतोर्यतः पुरुषोऽपरिणामी परिणामित्वे चित्तवत्पुरुषोऽपि ज्ञाताज्ञातविषयो भवेत् । १ क. स. झ. 'थल ई । २ ख. ज. स. सो ।