पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि - [४ कैवल्पपादे- न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं . तदा किं स्यात् ॥ १६ ॥ एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रेनिरुद्धे वाऽस्वरूप. मेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात् । संबध्यमानं च पुनश्चित्तेन कुत उत्पद्येत । ये चास्यानुपस्थिता भागास्ते चास्य न स्युरेवं नास्ति पृष्ठमित्युदरमपि न गृह्येत । तस्मात्स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोः संवन्धादुपलब्धिः पुरुषस्य भोग इति ।। १६ ।। मा वा भूदिदमंशस्यापह्नवो ज्ञानसहभूरेत्वास्त्वर्थस्तत्राप्याह-न चैकचित्ततन्त्रं वस्तु तेंदप्रमाणकं तदा किं स्यात् । यद्धि घटग्राहि चित्तं तद्यदा पटद्रव्यव्यग्रतया न घटे वर्तते । यद्वा विवेकविषयमासीत्तदेव च निरोधं समापद्यते तदा घटज्ञानस्य धा विवेकज्ञानस्य वाऽभावाद्विवेको वा घटो वा ज्ञानभेदमात्रजीवनस्तन्नाशान्नट एव स्यादित्याह-एकचित्तेति । किं तत्स्यान्न स्यादित्यर्थः । संबध्यमानं च चितेन तद्वस्तुविधेको वा घटो वा कुत उत्पद्येत । नियतकारणान्वयव्यतिरेकानुविधायिभावानि हि कार्याणि न स्वकारणमतिवर्त्य कारणान्तराद्भवितुमीशते । मा भूदकारणत्वे तेषां कादाचिकात्वव्याघातः । नच तज्ज्ञानकारणत्वमेव तत्कारणेत्वमिति युक्तम् । आशामोदकस्य मोदकस्य चोपयुज्यमानस्य रसवीर्यविपाकादिसाम्यप्रसङ्गात् । तस्मात्साधूक्तं संबध्यमानं वा (च) पुनश्चित्तेनेति । अपि च यो योऽर्वाग्भागः स सर्वो मध्यपरभागव्याप्तः । ज्ञानाधीने सद्भावित्वस्थाननुभूयमानत्वान्मध्यपरभागौ न स्त इति व्यापकाभावादर्वाग्भागोऽपि न स्यादित्य- र्थाभावात्कुतो ज्ञानसहभूरर्थ इत्याह-ये चास्येति । अनुपस्थिता अज्ञाताः । उपसंहरति- तस्मादिति । सुगमं शेषम् ॥ १६ ॥ १क.ख.चेहरतु । २ क.ख. च. ज. तत्पमाणकं । ३ क.ख. घ. च. ज. गा। ४ क. चेदस्तु । ५ क. तत्यमाणकं । ६ ज. त्वेन ते' । ७ स. °ण । ८ ख. त्यामे ! ९. गमि'। १० क. कस्योपार्जितमो' । ११ ख. ज. गमम् ।