पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० १५] पातञ्जलयोगसूत्राणि । १९१ बहुचित्तालम्बनीभूतमेकं वस्तु साधारणं, तत्खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्पितं किंतु स्वप्रतिष्ठम् । कथं, वस्तुसाम्ये चित्तभेदात् । धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवत्यधर्मापेक्षं तत एव दुःखज्ञानमविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति । कस्य तच्चितेन परिकल्पितम् । न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः । तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभित्रयोर्विभक्तः पन्थाः । नानयोः संकरगन्धोऽप्यस्तीति । सांख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनि मित्तापेक्षं चित्तैरभिसंबध्यते । निमित्तानुरूपस्य च प्रत्ययस्योत्त्पद्यमानस्य तेन तेनाऽऽत्मना हेतुर्भवति । केचिदाहुः-ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति । त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपमेवापनुवते ॥ १५ ॥ कामिनीलक्षणोऽर्थस्तेनैवान्येषामपि चितमुपरज्यत इति साधारणमुपपद्यत इत्यत आह- न चान्येति । तथा सत्येकस्मिन्नीलज्ञानवति सर्व एवं नीलज्ञानवन्तः स्युरिति । नन्वर्थवादिनामप्येकोडर्थः कथं सुखादिभेदभिन्नविज्ञानहेतुः । न ह्यविलक्षणात्कारणात्कार्यभेदो युक्त इत्यत आह-सांख्यपक्ष इति । एकस्यैव बाह्यस्य वस्तुनस्त्रैगुण्यपरिणामस्य त्रैरूप्यमुपपन्नम् । एवमपि सर्वेषामविशेषेण सुखदुःखमोहात्मकं विज्ञानं स्यादित्यत आह-धर्मादिनिमित्तापेक्षं रजःसहितं सत्वं धर्मापेक्षं सुखज्ञानं जनयति । सत्वमेव तु विगलितरजस्कं विद्यापेक्षं माध्यस्थ्यज्ञानमिति । ते च धर्मादयो न सर्वे सर्वत्र पुरुषे सन्ति किंतु कश्चि क्वचिदित्युपपन्ना व्यवस्थेति । अत्र केचिदाहुः प्रावादुका ज्ञानसहभूरेवार्थो भोग्यत्वात्मुखादिवदिति । एतदुक्तं भवति-भवत्यर्थो ज्ञानाद्वयतिरिक्तस्तथाऽप्यसौ जडत्वान्न ज्ञानमन्तरेण शक्यः प्रतिपत्तुम् । ज्ञानेन तु भासनीयः । तथाच ज्ञानसमय एवास्ति नान्यदा प्रमाणाभावादिति । तदेतदुत्सूत्रं तावद्दूषयति भाष्यकारः-त एतया द्वारेति । वस्तु खलु सर्वचित्तसाधारणमनेकक्षणपरम्परोह्यमानं परिणामात्मकमनुभूयते लौकिकपरीक्षकैः । तच्चेद्विज्ञानेन सह भवेन्नूनमेवंविधमिवं चेदिदमंशस्योपरि कोऽयमनुरोधो येन सोऽपि नापहनुयेतेत्यर्थः ।। १५ ॥ । ४ झ. १ म. प. उ. च. ज. चावल' । २. स्तुस्वरू । ३ ज. एकै गत । ५ ज. विज्ञानसहित । THE KUPPUSWAMI SASTRI RESEARCH INSTITUTE - MADRAS-4