पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९. वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-- [४कैवल्यपादे-- कुतश्चेतदन्याय्यम्-

वस्तुसाम्ये चित्तभेदात्तयो- रेविभक्तः पन्थाः ॥ १५॥

व्यापिता विच्छिन्नदेशता चोपपद्यते । तद्देशत्वातद्देशत्वलक्षणविरुद्धधर्मसंसर्गस्यैकंत्रासंभ• वात्संभवे वा त्रैलोक्यस्यैकत्वप्रसङ्गात् । अत एवास्तु विज्ञानभेद इति चेत् । हन्त भोः परमसूक्ष्मगोचराणां प्रत्ययानां परस्परवार्तानभिज्ञानां स्वगोचरमात्रजागरूकाणां कुतस्त्योऽयं स्थूलावभासः । न च विकल्पगोचरोऽभिलापः संसर्गाभावाद्विशदप्रतिभासत्वाञ्च । न च स्थूलमालोचितं यतस्तदुपाधिकस्य विशदता भवेत्तत्पृष्ठभाविनः । न चाविकल्पवद्विकल्पोऽपि स्वाकारमात्रगोचरस्तस्य चास्थूलत्वान्न स्थूलगोचरो भवितुमर्हति । तस्माद्बाह्ये च प्रत्यये स्थूलस्य बाह्यस्य चासंभवादलीकमेतदास्थातव्यम् । न चालीकं विज्ञानादभिन्नं विज्ञानस्य तद्वत्तुच्छत्वप्रसङ्गात् । तथा च वेद्यत्वस्याभेदव्याप्यत्वाभावात्कुतो भेदप्रतिप- क्षत्वम् । सहोपलम्भनियमश्च सदसतोरिव विज्ञानस्थौल्ययोः सतोरपि स्वभावाद्वा कुतश्चित्प्रतिबन्धौदोपपत्स्यते । तस्मादनैकान्तिकत्वादेतौ हेत्वाभासौ विकल्पमात्रमेव बाह्याभावे प्रसुवति । न च प्रत्यक्षमाहात्म्यं विकल्पमात्रेणापोद्यते । तस्मात्साधूक्तं कथमप्रमाणात्मकेन विकल्पज्ञानबलेनेति । एतेन प्रत्ययत्वमपि स्वप्नादिप्रत्ययदृष्टान्तेन निरालम्बनत्यसाधनमपास्तम् । प्रमेयविकल्पस्त्ववयविव्यवस्थापनेन प्रयुक्तः । विस्तरस्तु न्यायकणिकायामनुसरणीय इति तदिह कृतं विस्तरेणेति ॥ १४ ॥ तदेवमुत्सूत्रं भाष्यकृद्विज्ञानातिरिक्तस्थापने युक्तिमुक्त्वा सौत्री युक्तिमवतारयति- कुतश्चैतदिति । वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः । यन्नानात्वे यस्यैकत्वं तत्ततोऽत्यन्तं भिद्यते । यथा चैत्रस्य ज्ञानमेकं भिन्नेभ्यो देवदत्तविष्णुमित्रमैत्रप्रत्ययेभ्यो भिद्यते । ज्ञाननानात्वेऽपि चार्थो न भिद्यत इति भवति विज्ञानेभ्योऽन्यः। अभेदश्वार्थस्य ज्ञानभेदेऽपि प्रमातृणां परस्परप्रतिसंधानादवसीयते । अस्ति हि रक्तद्विष्टविमूढमध्यस्थानामेकस्यां योषिति प्रतीयमानायां प्रतिसंधानं या त्वया दृश्यते सैव मयाऽपीति । तस्माद्वस्तुसाम्ये चित्तभेदाज्ज्ञानभेदात्तयोरर्थज्ञानयोर्विभक्तः पन्थाः स्वरूपभेदोपायः । सुखज्ञानं कान्तायां कान्तस्य, सपत्नीनां दुःखज्ञानम् । चैत्रस्य तु तामविन्दतो मूढज्ञानं विषादः । स्यादेतत् । य एकस्य चित्तेन परिकल्पितः १ ज. च। २. सविकल्पस्य भा।३ज, धामोप।