पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू १४] पातञ्जलयोगसूत्राणि । १८९ स्वमादौ कल्पितमित्यनया दिशा ये वस्तुस्वरूपमपहनुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपमुत्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥ विरभावार्थः । विज्ञानासंबन्धो नास्ति व्यवहारयोग्य इत्यर्थः । अस्ति तु 'ज्ञानमर्थविसहचरं तस्य स्वयंप्रकाशत्वेन स्वगोचरास्तिताव्यवहारे कर्तव्ये जडमर्थं प्रत्यपेक्षाभावात् । तदनेन वेद्यत्वसहोपलम्भनियमौ सूचितौ विज्ञानवादिना । तौ चैवं प्रयोगमारोहतः- यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते । यथा ज्ञानस्याऽऽत्मा । वेद्यन्ते च भूतभौतिकानीति विरुद्धव्याप्तोपलब्धिर्निषेध्यभेदविरुद्धनाभेदेन व्याप्तं वेद्यत्वं दृश्यमानं स्वव्यापकमभेदमुपस्थापयत्तद्विरुद्धं भेदं प्रतिक्षिपतीति । तथा यद्येन नियतसहोपलम्भं तत्ततो न भिद्यते । यथैकस्माञ्चन्द्राद्वितीयश्चन्द्रः । नियतसहोपलम्भश्चार्थो ज्ञानेनेति व्यापकविरुद्धो- पलब्धिः । निषेध्यभेदव्यापकोनियमविरुद्धो नियमोऽनियमं निवर्तयंस्तद्याप्तं भेदं प्रतिक्षिपतीति । स्यादेतत् । अर्थश्चेन्न भिन्नो ज्ञानात्कथं भिन्नवत्प्रतिभासत इत्यत आह- कल्पितमिति । यथाऽऽहुर्वैनाशिका: -" सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्य इन्दाविवाद्वय " इति ।। कल्पितत्व विशदयति--ज्ञानपरिकल्पनेति । निराकरोति--त इति । ते कथं श्रद्धेयवचनाः स्युरिति संबन्धः । प्रतिज्ञानमुपस्थितं प्रत्युपस्थितम् । कथम्-तथेति । यथा यथाऽवभासत इदंकारास्पदत्वेन तथा तथा स्वयमुपस्थितं न तु कल्पनोपकल्पितं विज्ञानविषयतापन्नम् । स्वमाहात्म्येनेति विज्ञानकारणत्वमर्थस्य दर्शयति । यस्मादर्थेन स्वकीयया ग्राह्यशक्त्या विज्ञानमजनि तस्मादर्थस्य ग्राहकं तदेवंभूतं वस्तु कथमप्रमाणात्मकेन विकल्पविज्ञानबलेन विकल्पस्याप्रामाणिकत्वात्तद्बलस्यापि तदात्मनोऽप्रमाणात्मकत्वं, तेन वस्तुस्वरूपमुत्सृज्योपप्लुतं कृत्वा । उपगृह्येति क्वचित्पाठः । तत्रापि स एवार्थः । तदेवापलपन्तः श्रद्धातव्यवचनाः स्युरिति । इदमत्राऽऽकृतम्----सहोपलम्भ- नियमश्च वैद्यत्वं च हेतू संदिग्धव्यतिरेकतया नैकान्तिको । तथाहि-ज्ञानाकारस्य भूतभौतिकादेर्थदेतद्बाह्यत्वं स्थूलत्वं च भासेते न ते ज्ञाने संभवतः । तथाहि नानादेशव्यापिता स्थौल्यं विच्छिन्नदेशता च बाह्यत्वम् । न चैकविज्ञानस्य नानादेश. . १च. 'मुपमृज्य । ज. 'मुगृह्य त । २७. झ. नाम्तीति । ३ झ. माने स्व । ४ मा 'मुन्थ पयंस्तद्वि' । ५ के. 'पकनि' । ६ क, छ. ति कारणत्वं विज्ञानं प्रत्यर्थ । ख. "ति कारणाषिश नं पत्पर्थ । ७ ज. पगुह्ये'।