एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८ . बाचस्पतिकृतटीकासंवलिनन्यासभाष्यसमेतानि- [४ कैवल्यपादे-
यदा तु सर्वे गुणाः कथमेकः शब्द एकमिन्द्रियमिति--
परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥
प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करण-
भावेनेकः परिणामः श्रोत्रपिन्द्रिये, ग्राह्यात्मकानां शब्देतन्मात्र-
भावनैकः परिणामः शब्दो विषय इति, शब्दादीनां मूर्तिसमान-
जातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां
चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि
स्नेहौण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकरिकारा-
इम्भः समाधेयः।
नास्त्यर्थोः विज्ञानविसहचरः, अस्ति तु ज्ञानमर्थविसहचरं
-----------------------------------------------------------
स्यानुशिष्टिः । मायेव न तु माया। मुतुच्छकं विनाशि । यथा हि मायाऽहायैवान्यथा
भवति एवं विकारा अप्याविर्भावतिरोभावधर्माणः प्रतिक्षणमन्यथा । प्रकृतिर्नित्यतया माया-
विधर्मिणी परमार्थेति ॥ १३ ॥
भवतु त्रैगुण्यस्येत्थं परिणामवैचित्र्यमेकरतु परिणामः पृथिवीति या तोयमिति वा कुे॔त
आत्मन एकत्वविरोधादित्याशङ्कय सूत्रमवतारयति---यदा तु सर्वे गुणा इति । परि-
णामैकत्वाद्वस्तुतत्त्वम् । बह्नामध्येक परिणामो दृष्टः । तद्यथा-- गवाश्वमहिषमात-
ङगानां रुमानिक्षिप्तानामेको लवणत्वजातीयलक्षणः परिणामो बर्तितैत्मनलानां च प्रदीप
इति । एवं बहुत्वेऽपि गुणानां परिणभैकत्वं, ततस्तन्मात्रभूतभौतिकम्नां प्रत्येकं तत्वमे-
कस्बम् । ग्रहणात्मकामाऺ सत्त्वप्रधानतया प्रकाशात्मनामहंकारावान्तरकार्याणां करणभावनैकः
परिणामः श्रोत्रमिन्द्रियम् । तेषामेव गुणानां समःप्रधानतया जडत्वेन माह्यात्मकानां
शब्दतन्मात्रभागेनैकः परिणामः शब्दो विषयः । शब्द इति शब्दतन्मात्रम् । विषय इति
७ इत्वमाह न तु तन्मात्रस्य श्रोत्रविषयत्वसंभव इति । शेषं सुगमम् ।।
अथ विज्ञानवादिनं वैनाशिकमुत्थापयति--नास्त्यर्थो विज्ञानविसहचर इति ।
यदि हि भूतभौतिकानि विज्ञानमात्राद्भिन्नानि भवेयुस्ततस्तदुत्पत्तिकारणमीदृशं प्रधानं
कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः । तत्कथं प्रधानकल्पनं कथं
च ग्रहणानामिन्द्रियाणामहऺकारविकाराणां कल्पनेति । तथाहि---जडस्यार्थस्य स्वयमप्र-
काशत्वान्नास्त्यर्थो विज्ञानविसहचरः । साहचर्य संबन्धः । तदभावो विसहचरत्नम् ।
१ ग. घ. इ. च. ज. ॰ब्दमा॰ । २ ख. प. ङ. च. ज. ॰दिभूता॰ । ३ स्व. ज.स.
॰धर्मेण प॰ । ४ ज, कुनी नानात्मान।