एतत् पृष्ठम् परिष्कृतम् अस्ति
स० १३ ] पातञ्जलयोगसूत्राणि ।
धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यव- स्थिताः । न च यथा वर्तमान व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्ये- वमतीतमनागतं च । कथं तर्हि, स्वेनैव व्यङ्गन्येन स्वरूपेणाना- गतमस्ति । स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतमिति । वर्त. मानस्यैवाध्वनः स्वरूपव्यक्तिरिति न सा भवत्यतीतानागतयो- रध्वनोः । एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२॥
ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥
ते खल्वमी त्रयध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीता- नागताः सूक्ष्मात्मानः षडविशेषरूपाः । सर्वमिदं गुणानां संनि- वेशविशेषमात्रमिति परमार्थतो गुणात्मानः । तथा च शास्त्रा- नुशासनम् - "गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम् " इति ॥ १३ ।।
णाऽऽह-~-धर्मी चेति । प्रत्येकमवस्थानं प्रत्यवस्थितिरिति । द्रव्यत इति द्रव्ये धर्मिणि सार्वविभक्तिकस्तसिः । यद्यतीतानागतावतीतानागतत्वे न स्तस्तर्हि वर्तमानसमये तत्त्वा- भावान्न स्यातामित्यत आह–एकस्य चेति । प्रकृतमुपसंहरति-इति नाभूत्वा भाव इति ॥ १२ ॥
स्यादेतत् । अयं तु नानापकारो धर्मिधर्मावस्थापरिणामरूपो विश्वभेदप्रपञ्चो न प्रधा- नादेकस्माद्भवितुमर्हति । न ह्यविलक्षणात्कारणात्कार्यभेदसंभव इत्यत आह-ते व्यक्त- सूक्ष्मा गुणात्मानः । ते त्रयध्वानो धर्मा व्यक्ताश्च सूक्ष्माश्च गुणात्मानो न त्रैगुण्याति- रिक्तमेषामस्ति कारणम् । वैचित्र्यं तु तदाहितानादिक्लेशवासनानुगताद्वैचित्र्यात् । यथोक्तं वायुपुराणे-"वैश्वरूप्याप्रधानस्य परिणामोऽयमद्भूतः" [वा० पु० ५३ । १२० इति ॥ व्यक्तानां पृथिव्यादीनामेकादशेन्द्रियाणां च वर्तमानानामतीतानागतत्वं, षडवि. शेषा यथायोगं भवन्ति । संप्रति विश्वस्य नित्यानित्यरूपे विभजन्नित्यरूपमाह-सर्व मिदमिति । दृश्यमानं संनिवेशः संस्थानभेदवान्परिणाम इत्यर्थः । अत्रैक षष्टितन्त्रशास्त्र-
१ ग. वा । २ म. ह. 'मः || ज. विशे । ४ ज. यवरणिकर । ५. धर्मधर्थन । ६ क. नाती । ७ ज. झ. पति ।