पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८६ .वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ४ कैवल्पपादे--

               नास्त्यसतः संभवः, न चास्ति सतो विनाश इति द्रव्यत्वेन
             संभवन्त्यः कथं निवर्तिष्यन्ते वासना इति--
                       अतीतानागतं स्वरूपतोऽस्त्य-
                       ध्वभेदाद्धर्माणाम्  ॥  १२ ॥
               भविष्यद्वयक्तिकमनागतमनुभूतव्यक्तिकमतीतं  -स्वव्यापारो-
             पारूढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत्स्व-
             रूपतो नाभविष्यन्नेदं  निर्विषयं  ज्ञानमुदपत्स्यत । तस्मादती:
             तानागतं स्वरूपतोऽस्तीति । किंच  भोगभागीयस्य वाऽपवर्ग-
             भागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदु-
             देशेन नेन निमित्तेन कुशलानुष्ठानं न युज्येत । सतश्च फलस्य
             निमित्तं वर्तमानीकरणे समर्थ नापूर्वोपजनने.।  सिद्धं निमित्त
             नैमित्तिकस्य विशेषानुग्रहणं कुरुते नापूर्वमुत्पादयंतीति ।
         
      उत्तरसूत्रमवतारयितुं शङ्कते-नास्तीति।असत इति तु संपातायातं निदर्शनायवा।
  अतीतानागतं   स्वरूपतोऽस्त्यध्वभेदाधर्माणाम् । नासतामुत्पादो न सतां  विनाशः
  किंतु  सतामेव धर्माणामध्वभेदपरिणाम एवोदयव्ययाविति  सुत्रार्थः ।  अनुभूता प्राप्ता येन
  व्यक्तिस्तत्तथा । संप्रति व्यक्तिर्नास्तीति यावत् ।  इतश्च  त्रकाल्येऽपि धर्मः  सन्नित्याह---
  यदि चेति । न  ह्यसञ्ज्ञानविषयः संभवतीति निरुपाख्य वाद्विषयावभासं हि विज्ञानं
  नासति विषये भवति ।  त्रैक.ल्यविषयं च विज्ञानं  योगिनामस्मदादीनां  च  विज्ञानमसति
  विषये नोत्पन्नं स्यात् । उत्पद्यते च ।  तस्मादतीतानागते  सामान्यरूपेण  समनुगते  स्त
  इति। एवमनुभवतो ज्ञानं विषयसत्वे हेतुरुक्तम्।  उद्देश्यत्वादप्यनागतस्य  विषयत्वेन  सत्त्व-
  मेवेत्याह --किंच भोगभागीयस्येति । कुशलो निपुणः । अनुष्ठेयेऽपि च यद्यनिमित्तं
  तत्सर्वं नैमित्तिके सत्येव विशेषमाधंत्त । यथा काण्डलाववेदाध्यायादयः । न खल्वेते काण्ड-
  लावादयोऽसन्तमुत्पादयन्ति । सत एव तु तत्प्राप्तिविकारौ कुर्वन्ति । एवं  कुलालादयोऽपि
  सत एव घटस्य वर्तमानीभावहेतब इत्याह -सतश्चेति
      यदि  तु  वर्तमानःवाभावादतीतानागतयोरसत्वं हन्त भो  वर्तमानस्याप्यभावोऽती-
   तानागतत्वाभावात् ।  अध्वविशिष्टतया   तु   सत्तं   त्रयाणामध्यविशिष्टमित्यभिप्राये-

      १ क.ख. ॰ग्रहं कु'। २ ग.क. इ. 'यति । ३ ख.स.'मानभा'। ४. ख. झ.'त।
   स्वार्थवि॰ । ५ क, ध्वधर्म्यवि' ।'