पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

• ११] पातञ्जलयोगसूत्राणि । १८५ मैत्र्यादयो ध्यायिनां विहारास्ते बाह्य साधननिरनुग्रहात्मानः प्रकृष्ट धर्ममभिनिवर्तयन्ति । तयोर्मानसं बलीयः । कथं, ज्ञानवैराग्ये केनातिशय्येते, दण्डकारण्यं च चित्तवलव्यतिरेकेण शारीरेण कर्मणा शून्यं कः कर्तुमुत्सहेत समुद्रमगस्त्यवद्वा पिवेत् ॥१०॥ हेतुफलाश्रयालम्बनैः संगृहीत- त्वादेषामभावे तदभावः ॥ ११॥ हेतुर्धर्मात्सुखमधर्मादुःखं, सुखाद्रागी दुःखाद्द्वेषस्ततश्च प्रय. स्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णास्युपहन्ति वा ततः पुनर्धर्माधर्मौ सुखदुःखे रागद्वेषाविति प्रवृत्तमिदं षडरं संसारचक्रम् । अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामित्येष हेतुः । फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः । मनस्तु, साधिकारमाश्रयो वासनानाम् । न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते । यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् । एवं हेतुफलाश्रयालम्बनैरेतैः संगृहीताः सर्वा वासनाः । एषामभावे तत्संश्रयाणामपि वास- नानामभावः ॥११॥ विहारो व्यापारः । प्रकृष्टं शुक्लं, तयोर्बाह्याभ्यन्तरयोर्मध्ये । ज्ञानवैराग्ये तज्जनितो (तौ) धर्म:(मौ) केन बाह्य साध्येन धर्मेणातिशय्येते अभिभूयेते । ज्ञानवैराग्यजावेव धर्मो तमभिभवतः, बीजभावादपनयत इत्यर्थः । अत्रैव सुप्रसिद्धमुदाहरणमाह-दण्डकारण्यमिति ॥ १० ॥ अथैताश्चित्तवृतयो वासनाश्चानादयश्चेत्कयमासामुच्छेदः । न खलु चितिशक्तिरनादिरुच्छिद्यत इत्यत आह-हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभाचे तदभावः । अनादेरपि समुच्छेदो दृष्टः । तद्यथाऽनागतत्वस्येति सव्यभिचारत्वादसाधनम् । चितिशक्तिस्तु विनाशकारण भावान्न विनश्यति, न त्वनादित्वात् । उक्तं च वासनानामनादीनामपि समुच्छेदे कारणं सूत्रेणेति । अनुप्रहोपघातावपि धर्माधर्मादिनिमित्तमुपलक्षयतः | तेन सुरापानादयोऽपि संगृहीता भवन्ति । नेत्री नायिका । अत्रैव हेतुमाह---मूलमिति । प्रत्युत्पन्नता वर्तमानता न तु धर्मस्वरूपोत्पादः । अत्रैव हेतुमाह-न हीति । यदभिमुखीभूतं वस्तु कामिनसंपर्कादि । व्यापकाभावे व्याप्यस्याभाव इति सूत्रार्थः ॥ ११ ॥ १स. शव्य । २. भूपते .