पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० ५५ ] पातञ्जलयोगसूत्राणि। १७५ यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुपस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावःशुद्धिः। एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन • इतरस्य वा । नहि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम् । परमार्थस्तु ज्ञानाददर्शनं निवर्तते तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः । क्लेशाभावात्कर्मविपाकाभावः । चरिताधिकाराश्चैतस्यामवस्थायां गुणा न पुरुषस्य पुनर्दृश्यत्वेनोपतिष्ठन्ते । तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिरमलः केवली भवति ॥ ५५॥ इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे व्यास- ___ भाष्ये विभूतिपादस्तृतीयः ।। ३ ।। विभूतिषु काचिदपेक्षाऽस्तीत्याह-न हीति । ननु यद्यनपेक्षिता विभूतयः कैवल्ये व्यर्थस्तर्हि तासामुपदेश इत्यत आह---सत्त्वशुद्धिद्वारेणेति । इत्यंभूतलक्षणे तृतीया । नात्यन्तमहेतवः कैवल्ये विभूतयः किंतु न साक्षादिव्यर्थः । ज्ञानं विवेकजमुपक्रान्तं यच्च पारम्पर्येण कारणं तदोपचारिकं न तु मुख्यं, परमार्थस्तु ख्यातिरेव मुख्यमित्यर्थः । ज्ञानादिति प्रसंख्यानादित्यर्थः ॥ ५५ ॥ “ अत्रान्तरङ्गाण्यङ्गानि परिणामाः प्रपञ्चिताः । संयमाद्भूतसंयोगस्तःसु ज्ञानं विवेकजम्" इति ( *पदार्थसंग्रहश्लोकः)॥ इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलभाष्यव्याख्यायां तत्ववैशारद्यां विभूतिपादस्तृतीयः ॥ ३ ॥ -

  • एतशिलान्तर्गतं क. पुस्तके नास्ति ।

१ग. प. इ.च.ज. प्रत्ययमा।