पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वाचस्पतिकृतीकासंवलितव्यासभाष्यसमेतानि पातञ्जलयोगसूत्राणि । ( तत्र चतुर्थः कैवल्यपादः ।) जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १॥ देहान्तरिता जन्मना सिद्धिः । ओषधिभिरसुरभवनेषु रसाय- नेनेत्येवमादिः । मन्त्रैराकाशगमनाणिमादिलाभः । तपसा संकल्पसिद्धिः, कामरूपी यत्र तत्र कामग इत्येवमादि । समाधिजाः सिद्धयो व्याख्याताः ॥ १॥ तदेवं प्रथमद्वितीयतृतीयपादैः सम्बधितसाधनतद्विभूतयः प्राधान्येन व्युत्पादिताः । इतरत्तु प्रासङ्गिकमौपोद्घातिकं चोक्तमिहेदानी तहेतुकं कैवल्यं व्युत्पादनीयम् । नचैतत्कैवल्यभागीयं चित्तं परलोकं च परलोकिनं विज्ञानातिरिक्तं चित्तकरणकमुखाद्यात्मक- शब्दाद्युपभोक्तारमात्मानं च प्रसंख्यानपरमकाष्ठां च विना व्युत्पाद्य शक्यं वक्तमिति तदेतत्सर्वमत्र पादे व्युत्पादनीयमितरच्च प्रसङ्गादुपोद्घाताद्वा । तत्र प्रथमं सिद्धचित्तेषु कैवल्यभागीयं चित्तं निर्धारयितुकामः पञ्चतयी सिद्धिमाह-जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः । व्याचष्टे-देहान्तरितेति । स्वर्गोपभोगभागीयातद्कर्मणो मनुष्यजातीयाचरितात्कुतश्चिन्निमित्ताल्लब्धपरिपाकात्क्वचिद्देवनिकाये जातमात्रस्यैव दिव्यदेहान्तरिता सिद्धिर- णिमाद्या भवतीति । ओषधिसिद्धिमाह-असुरभवनेष्विति । मनुष्यो हि कुतश्चिन्निमितादसुरभवनमुपसंप्राप्तः कमनीयाभिरसुरकन्याभिरुपनीतं रसायनमुपयुज्याजरामरण मन्याश्च सिद्धीरासादयति । इहैव वा रसायनोपयोगेन यथा माण्डव्यो मुनी रसोपयोगाद्विन्ध्यवासीति । मन्त्रसिद्धिमाह----मन्त्रैरिति । तपःसिद्धिमाह----तपसेति । संकल्पसिद्धिमाह-कामरूपीति । यदेव कामयतेऽणिमादि तदेकपदेऽस्य भवतीति । यत्र कामयते श्रोतुं वा मन्तुं वा तत्र तदेव शृणोति मनुते वेति । आदिशब्दादर्शनादयः संगृहीता इति ॥ १॥ समाधिजाः सिद्धयो व्याख्याता अधस्तने पादे । अथ चतसृषु सिद्धियोपवादि- साधनासु तेषामेव कायेन्द्रियाणां जात्यन्तरपरिणतिरिष्यते । सा पुनर्न तावदुपादानमात्रात् । न हि तावन्मात्रमुपादानं न्यूनाधिकदिव्यादिव्यभावेऽस्य भवति । नो खेल्वविलक्षणं कारणं कार्यवैलक्षण्यायालम् । माऽस्योऽऽकस्मिकत्व भूदित्याशङ्कय पूरयित्वा सूत्रं १ क. ख. च. ज. "न्मसि । २ क. स. "दिसिद्धिः । त° । च. ज. दिलब्धिः । त' । ३ ख. झ. 'मिदा । ४ झ. "स्या आक।