पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे-- तारकं सर्वविषयं सर्वथाविषयमकमं चेति विवेकजं ज्ञानम् ॥ ५४॥ तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः। सर्वविषयं नास्य किंचिदविषयीभूतमित्यर्थः । सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्व सर्वथा गृह्णातीत्यर्थः । एतद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांशो योगमदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ॥ ५४॥ प्रातविवेकजज्ञानस्यामाप्तविवेकजज्ञानस्य वा- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५॥ (इति श्रीपतञ्जलिविरक्तियोगसूत्रेषु तृतीयो विभातिपादः ॥॥) तदेवं विषयैकदेशं विवेकजज्ञानस्य दर्शयित्वा विवेकजं ज्ञानं लक्षयति-तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् । विवेकजं ज्ञानमिति लक्ष्यनिर्देशः। शेष लक्षणम् । संसारसागराचारपतीति तारकम् । पूर्वस्मात्प्रातिभाद्विशेषयति-सर्वथा. विषयमिति । पर्याया अवान्तरविशषाः । अत एव विवेकजं ज्ञानं परिपूर्ण नास्य क्वचि- किंचित्कथंचित्कदाचिदगोचर इत्यर्थ. | आस्तां तावज्ज्ञानान्तरं संप्रज्ञातोऽपि तावदस्यांशः । तस्मादतः परं किं परिपूर्णमित्याह-अस्यैवांशो योगप्रदीपः संप्रज्ञातः । किमुपक्रमः किमवसानश्वासावित्याह---मधुमतीभिति । ऋतंभरा प्रज्ञैव मधु मोदकारणत्वात् । यथोक्तं प्रज्ञाप्रासादमारुह्येति । तद्वती मधुमती धियोऽवस्था तामुपादाय यावदस्य परिसमाप्तिः सप्तधा प्रान्तभूमिः प्रज्ञा । अत एव विवेकजं ज्ञानं तारकं भवति । तदंशस्य योगप्रदीपस्य तारकत्वादिति ॥ ५ ॥ . तदेवं परम्परया कैवल्यस्य हेतून्सविभूतीन्संयमानुक्त्वा सत्त्वपुरुषान्यताज्ञानं साक्षात्कैवल्यसाधनमित्यत्र सूत्रमवतारयति-प्राप्तेति । विवेकजं ज्ञानं भवतु मा वा भूत्सत्त्वपुरुषान्यताख्यातिस्तु कैवल्यप्रयोजिकेत्यर्थः । सत्त्वपुरुषयोः बुद्धिसाम्ये कैवल्यमिति । इति: सूत्रसमाप्तौ । ईश्वरस्य पूर्वोक्तैः संयमैर्ज्ञानक्रियाशक्तिमतोऽनीश्वरस्य वा समनन्तरोक्तेन संयमेन विवेकजज्ञानभागिन इतरस्य वाऽनुत्पन्नज्ञानस्य न १ क. ज. °स्य वोल्प । झ. 'स्य चानु।