पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० ५३ :
१७३
पातञ्जलयोगसूत्राणि ।

अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति । एतेन दृष्टा-
न्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्ष.
णसाक्षात्करणादुत्तरस्य परमाणोस्तद्देशानुपपत्ताबुत्तरस्य तद्दे-
शानुभवो भिन्नः सहक्षणभेदात्तयोरीसश्वरस्य योगिनोऽन्यत्व-
प्रत्ययो भवतीति ।

अपरे तु वर्णयन्ति-येऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्व-
न्तीति । तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे
हेतुः । क्षणभेदस्तु योगिबुद्धिगम्य एवेति । अत उक्तं मूर्तिव्य-
वधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ ५३॥

अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति । अनेनैव निदर्शनेन लौकिकप. रीक्षकसंवादादिना परमाणोरपीदृशस्य भेदो योगीश्वरबुद्धिगम्यः श्रद्धेय इत्याह--एतेनेत  अपरे तु वर्णयन्ति । वर्णनमुदाहरति-- य इति । वैशेषिका हि नित्यद्रव्यव्रु. त्तयोऽत्या विशेषा इत्याहुः । तथाहि-योगिनो मुक्तांस्तुल्यजातिदेशकालान्व्यवधिरहि- तान्परस्परतो भेदेन प्रत्येकं तत्त्वेन च प्रतिपद्यन्ते । तस्मादस्ति कश्चिदन्त्यो विशेष इति । तथाच स एव नित्यानां परमाण्वादीनां द्रव्याणां भेदक इति । तदेतद्. यति-तत्रापीति । जातिदेशलक्षणान्युदाहृतानि । मूर्तिः संस्था[१]नं यथैकं विशुद्धाव. यवसंस्थानोपपन्नमपसार्य तस्मिन्नेव देशेऽन्यव्यग्रस्य द्रष्टुः कुत्सितावयवसंनिवेश उपाचर्यते तदा तस्य संस्थानमेदेन भेदप्रत्ययः, शरीरं वा मूर्तिस्तत्संबन्धेनाऽऽस्मनां संसारिणां मुक्ता. रमनां वा भूतचरेण यादशतादृशेन भेद इति सर्वत्र भेदप्रत्ययस्यान्यथासिद्दएर्नान्त्यविशेष. कल्पना । व्यवधिर्भेदकारणम् । यथा कुशपुष्करद्वीपयोर्देशस्वरूपयोरिति । यतो जाति- देशादिभेदा लोकबुद्धिगम्या अत उक्तं–क्षणभेदस्तु योगिबुद्धिगम्य एवेति । एव. कारः क्षणभेदमवधारयति न योगिबुद्धिगम्यत्वं, तेन भूतचरेण देहसंबन्धेन मुक्तात्मनामपि भेदो योगिबुद्धिगम्य उन्नग इति । यस्य तूक्ता भेदहेतवो न सन्ति तस्य प्रधानस्य भेदो नास्तीत्याचर्यो मेने । यस्मादूचे "कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्यो० स० २१ २२ ] इति । तदाह-मूर्तिव्यवधीत । उक्तभेदहेतृपलक्षणमेतत् । जगन्मूलस्य प्रधानस्य पृथक्त्र भेदो नास्तीत्यर्थः ।। ५३ ॥