पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६७ मू० ४८-४९] पातञ्जलयोगसूत्राणि । ,

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ३.४८॥

कायस्यानुत्तमो गतिलाभो मनोजवित्वम् । विदेहानामिन्द्रि- याणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते । एताश्च करणपञ्चरूपजयादधिगम्यन्ते ॥४८॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ।। ३.४९ ।।

निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्या वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्र. तिष्ठस्य सर्वभावाधिष्ठातृत्वम् । सर्वात्मानो गुणा व्यवसायव्य- पञ्चरूपेन्द्रियजयासिद्धीराह–ततो मनोजवित्वं विकरणभावः प्रधानजयश्च । विदेहानामिन्द्रियाणां करणभावो विकरणभावः । देशः काश्मीरादिः । कालोऽतीतादिः । विषयः सूक्ष्मादिः । सान्वयेन्द्रियजयात्सर्वप्रकृतिविकारवशित्वं प्रधानजयः । ता एताः सिद्धयो मधुप्रतीका इत्युच्यन्ते योगशास्त्रनिष्णातैः । स्यादेतदिन्द्रियजयादिन्द्रियाणि सविषयाणि वश्यानि भवन्तु, प्रधानादीनां तत्कारणानां किमायातमित्यत आह-एताश्चेति । करणानामिन्द्रियाणां पञ्च रूपाणि ग्रहणादीनि तेषां जयात् । एतदुक्तं भवति-नेन्द्रियमात्रजयस्यैताः सिद्धयोऽपि तु पञ्चरूपस्य तदन्तर्गतं च प्रधानादीति ॥ ४८॥ : त एते ज्ञानक्रियारूपैश्चर्यहेतवः संयमाः साक्षात्पारम्पर्येण च स्वसिद्धयुपसंहारसंपादि- तश्रद्धद्वारेण यदर्थास्तस्याः सत्त्वपुरुषान्यताख्यातेरवान्तरविभूतीर्दर्शयति-सत्वपुरुषा- न्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च । निर्धूतरजस्तमोमलतया वैशारद्यं ततः परा वशीकारसंज्ञा रजस्तमोभ्यामुपप्लुतं हि चित्तसत्त्वमवश्यमासीत्तदुपशमे तु तद्वश्यं योगिनो वशिनस्वस्मिन्वश्ये योगिनः सत्त्वपुरुषान्यताख्यातिमात्ररूपंप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । एतदेव विवृणोति- सर्वात्मान इति । व्यवसायव्यवसेयात्मानो १ क. ख च ज : 'चावरू' । ग. प. ड 'चकरू'। २ ज साधनेन्द्रि' । ३ क. 'पहा । ज. "पपा।