पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६८ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-[ ३ विभूतिपादे- वसेयात्मकाः स्वामिनं क्षेत्र प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः । सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानमित्यर्थः । इत्येषा विशोका नाम सिद्धिर्वा प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो घशी विहरति ॥४१॥

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ३.५० ॥

यदाऽस्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति। एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्के । तदेतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥ ५० ॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ३.५१॥

जडप्रकाशरूपा इत्यर्थः । तदनेन क्रियैश्वर्यमुक्तम् । ज्ञानेश्वर्यमाह-सर्वज्ञातृत्वमिति । अस्या अपि द्विविधायाः सिद्धर्वैराग्याय योगिजनप्रसिद्धा संज्ञामाह---एषा विशोकेति । क्लेशाश्च बन्धनानि च कर्माणि तानि क्षीणानि यस्य स तथा ॥ ४९॥ संयमान्तराणां पुरुषार्थाभासफलत्वाद्विवेकख्यातिसंयमार्थतां दर्शयितुं विवेकख्यातेः पर- वैराग्योपजननद्वारेण कैवल्यं फलमाह-तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । यदाऽस्य योगिनः क्लेशकर्मक्षय एवं ज्ञानं भवति । किंभूतमित्याह-सत्त्वस्यायं विवेकप्रत्ययो धर्मः। शेषं तत्र तत्र व्याख्यातत्वात्सुगमम् ॥ ५० ॥ संप्रति कैवल्यसाधने प्रवृत्तस्य योगिनः प्रत्यूहसंभवे तन्निराकरणकारणमुपदिशति-स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गगत् । स्थानानि येषां १ ग. पतिष्ठन्त र' । २ क. 'यमस्य गुरु गर्थ । ३ ख स. न'। ५ ज. पसंह रति । ५ क.M, F. त् । तानि स्था।