पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
[३ विभूतिपादे-
वाचस्पतिकृतटीकासंचलितव्यासभाष्यसमेतानि-

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ३.४७ ॥

 सामान्यविशेषात्मा शब्दादिग्राह्यः[१] । तेष्विन्द्रियाणां वृत्ति-
ग्रहणम् । न च तत्सामान्यमात्रग्रहणाकारं[२] कथमनालोचितः स
विषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति । स्वरूपं पुनः
प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोरयुतासिद्धावयवभे
दानुगतः समूहो द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपमस्मितालक्ष-
णोऽहंकारः । तस्य सामान्यस्येन्द्रियाणि विशेषाः। चतुर्थ रूपं व्य-
वसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषामिन्द्रियाणि
साहंकाराणि परिणामः । पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थव-
त्वमिति । पञ्चवतेष्विन्द्रियरूपेषु यथाक्रम संयमस्तत्र तत्र.
जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः मादुर्भवति योगिनः॥४७॥

  - जितभूतस्य योगिन इन्द्रियजयोपायमाह-ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंय- मादिन्द्रियजयः । ग्रहणं च स्वरूपं चास्मिना चान्वयश्वार्थवत्त्वं च तेषु संयमस्तस्मादि. त्यर्थः । गृहीतिग्रहणं, तच्च ग्राह्याधीननिरूपणमिति ग्राह्यं दर्शयति--सामान्यविशेषा- स्मेति । ग्राह्यमुक्त्वा ग्रहणमाह-तेष्विति । वृत्तिरलोचनं विषयाकारा परिणतिरिति. यावत् । ये त्वाः --सामान्यमात्रगोचरेन्द्रियवृत्तिरिति तान्प्रत्याह---न चेति । गृह्यत. इति ग्रहणम् । न सामान्यमानगोचरं ग्रहणम् । बाह्येन्द्रियतन्त्रं हि मनो बह्ये प्रवर्तते । अन्यथाऽन्धंबधिराद्यभावप्रसङ्गात् । तदिह यदि न विशेषविषयमिन्द्रियं तेनासावनालो- चितो विशेष इति कथं मनसाऽनुव्यवसीयेत । तस्मात्सामान्यविशेषविषयमिन्द्रियालोचन- मिति । तदेतद्ग्रहणमिन्द्रियाणां प्रथमं रूपम् । द्वितीयं रूपमाह-स्वरूपं पुनरिति । अहंकारो हि सत्त्वभागेनाऽऽत्मीयनेन्द्रियाण्यजीजनत् । अतो यत्तत्र करणत्वं सामान्यं यत्र नियतरूपादिविषयत्वं विशेषस्तदुभयमपि प्रकाशात्मकमित्यर्थः । तेषां तृतीय रूपमिति । अहंकार हीन्द्रियाणां कारणमिति यत्रेन्द्रियाणि तत्र तेन भवितव्यमिति सर्वेन्द्रियसाधारण्या . सामान्यमिन्द्रियाणामित्यर्थः । चतुर्थ रूपमिति । गुणानां हि द्वैरूथ्यं व्यवसेयात्मकत्वं व्यवसायात्मकावं च । तत्र व्यवसेयात्मकतां ग्राह्यतामास्थाय पञ्च तन्मात्राणि भूतभौति- कानि निर्मिमीते । व्यवसायात्मकत्वं तु ग्रहणरूपमास्थाय साहंकाराणीन्द्रियाणीत्यर्थः । शेषं सुगमम् ॥ ४७ ॥

  1. =१ के. ख. 'विषियः । ते ।
  2. = २ च. 'मावण