पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ततोऽणिमादिप्रादुर्भावः कायसं-
पत्तद्धर्मानभिघातश्च ॥ ४५ ॥

तत्राणिमा भवत्यणुः । लघिमा लघुर्भवति । महिमा महान्भ-
वति । प्राप्तिरङ्गुम्ल्यग्नेगापि स्पृशति चन्द्रमसम् । प्राकाम्या
मिच्छानभिघातः । भूमावुन्मज्जति निमज्जति ययोदके ।


इत्येव सर्वतन्मात्राण्येतत्तृतीयम् । अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वयशब्देनोक्ताः। अथैषां पञ्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता गुणेष्वेवान्वयिनी,गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत् । तेष्विदानीं भूतेषु. पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति । तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति । तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥४४॥

ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥ ३.४५ ॥

तत्राणिमा भवत्यणुः । लघिमा लघुर्भवति । महिमा महान्भवति । प्राप्तिरङ्गुम्ल्यग्नेगापि स्पृशति चन्द्रमसम् । प्राकाम्या
मिच्छानभिघातः । भूमावुन्मज्जति निमज्जति यथोदके ।


परमाणुः सूक्ष्मं रूपमेवं सर्वतन्मात्राणि सूक्ष्म रूपमिति । उपसंहरति-एतदिति । अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावमनुपतितुमनुगन्तुं शीलं येषां ते तथोक्ताः । अत एवान्वयशब्देनोक्ताः । अथैषां पञ्चमं रूपमर्थवत्वं विवृणोति--भोगेति । नन्वेवमपि सन्तु गुणा अर्थवन्तस्तत्कार्याणां तु कुतोऽर्थवत्वमित्यत आह -गुणा इति । भौतिका गोघटादयः । तदेवं संयमविषयमुक्त्वा संयम तत्फलं चाऽऽह--तेष्विति । भूतप्रकृतयो भूतस्वभावाः ॥ ४४ ॥ . संकल्पानुविधाने भूतानां कि योगिनः सिध्यतीत्यत आह-ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च । स्थूलसंयमजयाच्चतस्रः सिद्धयो भवन्तीत्याह- तत्राणिमा महानपि भवत्यणुः । लघिमा महानपि लघुभूत्वेषीकातूल इवाऽऽकाशे विहरति । महिमाऽल्पोऽपि नागनगगगनपरिमाणो भवति । प्राप्तिः सर्वे भावाः संनिहिता भवन्ति योगिनः । तद्यथा भूमिष्ठ एवाङ्गुल्यग्रेण स्पृशति चन्द्रमसम् । स्वरू- पसंयमविजयासिद्धिमाह-प्राकाम्यमिच्छानभिघातो नास्य रूपं भूतस्वरूपैर्मूर्त्यादिभिर्हन्यते । भूमावुन्मज्जति निमज्जति च यथोदके । सूक्ष्मविषयसंयमजयात्सि. १ क. ख. स त° 1 २ ग. घ. ड.. 'वन्ध ।