सू० ४३] पातञ्जलयोगसूत्राणि । १६३ .. शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः । समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः । स च भेदाभेदविवक्षितः । आम्राणां वनं ब्राह्मणानां संघ आम्रवर्ण ब्राह्मणसंघ इति । - स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च । युतसिद्धावयवः समूहो वनं संघ इति । अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुरिति । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तम् ।। __ अथ किमेषां सूक्ष्मरूपं, तन्मात्र भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय
द्वितीयं प्रकारमाह-शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्या
इति । देवमनुष्या इति हि शब्देनोभ्यशब्दवाच्यस्य समूहस्य भागौ भिन्नावुपात्तौ । ननूभयशब्दात्तावदवयवभेदो न प्रतीयते तत्कथमुपात्तभेदावयवानुगत इत्यत आह--ताभ्यां
भागाभ्यामेव समूहोऽभिधीयते । उभयशब्देन भागद्वयवाचिशब्दसहितेन समूहो वाच्यः,
वाक्यस्य वाक्यार्थवाचकत्वादिति भावः ।
'पुनर्द्वैविध्यमाह-स चेति । भेदेन चाभेदेन च विवक्षितः । भेदविवक्षितमाह-
आम्राणां वनं ब्राह्मणानां संघ इति । भेद एवं षष्टीश्रुतेः, यथा गर्गाणां गौरिति ।
अभेदविवक्षितमाह-आम्रवणं ब्राह्मणसंघ इति । आम्राश्च ते वनं चेति समहसमूहिनोरभेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः ।
विधान्तरमाह-स पुनर्द्विविधः । युतसिद्धावयवः समूहः । युतसिद्धाः पृथक्सिद्धाः
सान्तराला अवयवा यस्य स तथोक्तः, यूथं वनमिति । सान्तराला हि तदवयवा वृक्षाश्च
गावश्च । अयुतसिद्भावयश्च समूहो वृक्षो गौः परमाणुरिति । निरन्तरा हि तदवयवाः
सामान्यविशेषा वा सास्नादयो वेति । तदेतेषु, समूहेषु द्रव्यभूतं समूहं निर्धास्यति-
अयुतसिद्धेति । तदेवं प्रासङ्गिक द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरति-एतत्स्वरूपमित्युक्तमिति ।
- - तृतीयं रूपं विवक्षुः पृच्छति- अथेति । उत्तरमाह-तन्मात्रमिति । तस्यै-
कोऽवयवः परिमाणभेदः परमाणुः, सामान्य मूर्तिः, शब्दादयो विशेपास्तदात्मा,
अयुतसिद्धा निरन्तरा येऽवयवाः सामान्य विशेषास्तद्भेदेष्वनुगतः समुदायः । यथा च
१ ख. ज. झ. रिगामझे' । २ ज. 'मानेऽय' ।