पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६२ ... वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि - [ ३ विभूतिपादे- प्रणामी सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनाच्यते । अस्य सामान्यस्य शब्दादयो विशेषाः । तथा चोक्त . एकजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति । सामान्यविशेषसमुदायोऽत्र द्रव्यम् । द्विष्टो हि समूहः प्रत्य-. स्तमितभेदावयवानुगतः शरीर वृक्षा यूथं वनमिति ।


समक्तोष्णतेति । सर्वं चैतद्धर्मधर्मिणोरभेदविवक्षयाऽभिधानम् । वायुः प्रणामी वहनशीलः । तदाह-" चलनेन तृणादीनां शरीरस्याटनेन च । __ सर्वगं वायुसामान्यं नामित्वमनुमीयते " ॥ सर्वतोगतिराकांशः सर्वत्र शब्दोपलब्धिदर्शनात् । श्रोत्राश्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धिरित्युपपादितमधस्तात् । एतत्स्वरूपशब्देनोक्तम् । . अस्यैव मूर्त्यादिसामान्यस्य शब्दादयः षड्जादय उष्णत्वादयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयो मूर्त्यादीनां सामान्यानां भेदाः । सामान्यान्यपि मूर्त्यादीनि जम्बीरपनसामलकफलादीनि रसादिभेदात्परस्परं व्यावर्तन्ते । तेनेतेषामेते रसादयो विशेषाः । तथा चोक्तम्-एकजातिसमन्वितानां प्रत्येकं पृथिव्यादीनामेकैकया जात्या मूर्तिस्नेहादिना समन्वितानामेषां षड्जादिधर्ममात्रव्यावृत्तिरिति । तदेवं सामान्यं मृर्त्याद्युक्तं विशेषाश्च शब्दादय उक्ताः । ये चाऽऽहुः सामान्यविशेषःश्रयो द्रव्यमिति तान्प्रत्याह-सामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यम् । येऽपि तदाश्रयो द्रव्यमास्थिषत तैरपि तत्समुदायोऽनुभूयमानो नापह्रोतव्यः । न च तदपह्रवे तयोराधारो द्रव्यमिति भवति । तस्मात्तदेवास्तु द्रव्यम् । न तु ताभ्यां तत्समुदायाच्च तदाधारमपरं द्रव्यमुपलभामहे । ग्रावभ्यो ग्रावसमुदायादिव च तदाधारमपरं पृथग्विधं शिखरम् । समूहो द्रव्यमित्युक्तं तत्रे समूहमात्रं द्रव्यमितिभ्रमापनुत्तये समूहविशेषो द्रव्यमिति निर्धारयितुं समूहप्रकारानाह---द्विष्ठो होति । यस्मादेवं तस्मान्न समूहमात्रं द्रव्यमित्यर्थः । द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः । एकं प्रकारमाह- प्रत्यस्तमितोते । प्रत्यस्तमितो भेदो येषामवयवानां ते तथोक्ताः । प्रत्यस्तमितभेदा अवयवा यस्य स तथोक्तः । एतदुक्तं भवति- शरीरवृक्षयूथवनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभेदस्तद्वाचकशब्दाप्रयोगात्समूह एकोऽवगम्यत इति । युतायुतसिद्धाव- यवत्वेन चेतनाचेतनत्वेन चोदाहरणचतुष्टयम् । युतायुतसिद्धावयवत्वं चाग्रे वक्ष्यते । . १ के. ख. रस।