पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ४४] . पातञ्जलयोगसूत्राणि । . १६१ विपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ॥ ४३ ॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥३.४४॥

तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः । एतद्भूतानां प्रथमं रूपम् । द्वितीयं रूपं स्वसामान्य मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः


विपाकत्रयं जात्यायुर्भोगाः । तदेतद्रजस्तमोमूलं विगलितरजस्तमसः सत्त्वमात्राद्विवेकख्यातिमात्रसमुत्पादात् । तदेतद्विपाकत्रयं रजस्तमोमूलतया तदात्मकं सद्बुद्धिसत्त्वमावृणोति । तत्क्षयाच्च निरावरणं योगिचित्तं यथेच्छं विहरति विजानाति चेति ॥ ४३ ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः । स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि तेषु संयमात्तज्जयः । स्थूलमाह- तत्रेति । पार्थिवाः पाथीयास्तैजसा वायवीया आकाशीयाः शब्दस्पर्शरूपरसगन्धा यथासंभवं विशेषाः षड्जगान्धारादयः शीतोष्णादयो नौलपीतादयः कषायमधुरादयः सुरभ्यादयः । एते हि नामरूपप्रयोजनैः परस्परतो भिद्यन्त इति विशेषाः । एतेषां पञ्च पृथिव्यां गन्धवर्जं चत्वारोऽस्तु गन्धरसवर्जं त्रयस्तेजसि गन्धरसरूपवर्जं द्वौ नभस्वति शब्द एवाऽऽकाशे । त एव ईदृशा विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशन्देन परिभा. षिताः शास्त्रे । तत्रापि पार्थिवास्तावद्धर्माः- ___ " आकारो गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । वृत्तिर्भेदः क्षमा कार्ष्ण्यं काठिन्यं सर्वभोग्यता" ।। अपां धर्माः-" स्नेहः सौम्यं प्रभा शौक्ल्य मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं संधान चौदका गुणाः " ॥ तैजसा धर्माः-" ऊर्ध्वभाक्वाचकं दग्धृ पावकं लघु भास्वरम् । प्रध्वंस्योजस्त्रि वै तेजः पूर्वाभ्यां भिन्नलक्षणम् " ॥ वायवीया धर्मा:-" तिर्यग्यानं पवित्रत्वमाक्षेणे नोदनं बलम् । चलमच्छायता रोक्ष्यं वायोधर्माः पृथग्विधाः " ॥ आकाशीया धर्माः---" सर्वतोगतिरव्यहोऽविष्टम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वधर्मविलक्षणाः ” इति ।। त एत आकारप्रभृतयो धर्मास्तैः सहेति । आकारश्च सामान्याविशेषो गोत्वादिः । द्वितीय रूपमाह-द्वितीयं रूपं स्वसामान्यम् । मूर्तिः सांसिद्धिकं काठिन्यम् । स्नेहो जलं मृजापुष्टिबलाधानहेतुः । वह्विरुष्णतोदर्ये सौर्ये भौमे च सर्वत्रैव तेजसि १ के. यिंग आप्य सै। २ ख. ज. झ. च ।