पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० बाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे-

कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽकाशगमनम् ॥ ३.४२ ॥

यत्र कायस्तत्राऽऽकाशं तस्यावकाशदानात्कायस्य तेन संबन्धः प्राप्तिस्तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा तूलादिष्वा परमाणुभ्यः समापत्तिं लब्ध्वा जितसंबन्धी लघुर्भवति । लघुत्वाश्च जले पादाभ्यां विहरति । ततस्तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति । ततो यथेष्टमाकाशगतिरस्य भवतीति ॥ ४२ ॥

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः॥३.४३॥

शरीराद्बहिर्मनसो वृत्तिलाभी विर्देहा नाम धारणा । सा यदि शरीरमतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्युच्यते । या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता । सत्र कल्पितया साधवन्त्यकल्पितां महाविदेहामिति । यया परशरीराण्याविशन्ति योगिना । ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्म-


कायाकाशयोः संबन्धसंयमाल्लधुतूलसमापत्तेश्वाऽऽकाशगमनम् । कायाकाशसंबन्धसंयमाद्वा लघुनि वा तूलादी कृतसंयमात्समापत्तिं चेतसस्तत्स्थतदानतां लब्ध्वेति । सिद्धिक्रममाह-जल इति ॥ ४२ ॥ - अपरमपि परशरीरावंशहेतुं संयमं क्लेशकर्मविपाकक्षयहेतुं चाऽऽह-~-बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः । विदेहामाह-शरीरादिति । अकल्पिताया महाविदेहाया य उपायस्तत्प्रदर्शनाय कल्पितां विदेहामाह-सा यदीति । वृत्तिमात्रं कल्पनाज्ञानमात्रं तेन । महाविदेहामाह-या त्विति । उपायोपेयते कल्पिताकल्पितयोराह--तत्रेति । किं परशरीरावेशमात्रमितो नेत्याह-ततश्वेति । ततो धारणातो महाविदेहाया मनःप्रवृत्तेः सिद्धिः । क्लेशश्च कर्म च ताभ्यां ४. "१ क. बन्धाराप्ति । ख. "बन्धो व्याप्ति' । घ. 1. च. बन्धमा । २ क. ख. गुम । ३ ख. ग. प. उ. प. ज. लघुः । ल । ४ ख. ग. प. उ. ज. यस्यक । ५ ख. ज.स. हेतुमाह।