पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू०.१] पातञ्जलयोगसूत्राणि । १५९ तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां. भवतीति । तचैतदाकाशस्य लिङ्गम् । . अनावरणं धोक्तम् । तथाऽमूर्तस्यानावरणदर्शनाद्विभुत्वमपि प्रख्यातमाकाशस्य । शब्दग्रहणानुमितं श्रोत्रम्.। बधिराबधिरयोरेक: शब्दं गृह्णात्यपरो न गृह्णातीति. 1 तस्माच्छोत्रमेव शब्दविषयम् । श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ॥४१॥ . . . . . .


तथाच दिग्देशवर्तिशब्दप्रतीतिः प्राणभृन्मात्रस्य नासति बाधकेऽप्रमाणीकृता भविष्य- तीति । तथाच पञ्चशिखस्य वाक्यम्-तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति । तुल्यदेशानि श्रवणानि श्रोत्राणि येषां चैत्रादीनां ते तथोक्ताः । सर्वेषा श्रवणान्याकाशवर्तीनीत्वर्थः । तच्च श्रोत्राधिष्ठानमाकाशं शब्दगुणतन्मात्रादुत्पन्नं शब्दगुणकं येन शब्देन सहकारिणा पार्थिवादीञ्शब्दानगृह्णाति । तस्मात्सर्वेषामेकजातीया श्रुतिः शब्द इत्यर्थः । तदनेन श्रोत्राधिष्ठानत्वमाकाशस्य शब्दगुणत्वं च दर्शितमिति । तच्चैकदेश. श्रुतित्वमाकाशस्य लिङ्गम् । सा ह्येकजातीया शब्दव्यञ्जिका श्रुतिर्यदाश्रया तदेवाऽऽकाशशब्दवाच्यम् । न हीदृशीं श्रुतिमन्तरेण शब्दव्यक्तिः । न चेदृशी श्रुतिः पृथिव्यादिगुणस्तस्य स्वात्मनि व्यङ्ग्यव्यञ्जकत्वानुपपत्तेरिति । अनावरणं चाऽऽकाशलिङ्गम् । यद्याकाशं, नाभविष्यदन्योन्यसंपिण्डितानि मूर्तानि न सूचीभिरप्यभेत्स्यन्त । ततश्च सर्वेरेव सर्वमावृतं स्यात् । न च मूर्तद्रव्याभावमात्रादेवानावरणमस्याभावस्य भाषाश्रितत्वेन तदभावेऽभावात् । न च चितिशक्तिस्तदाश्रया भवितुमर्हति । अपरिणामितयाऽवच्छेदकत्वाभावात् । न च दिक्कालादयः पृथिव्यादिद्रव्यव्यतिरिकाः सन्ति । तस्मात्तादृशः परिणतिभेदो नभस एवेति सर्वमवदातम् । अनावरणे चाऽऽकाशलिङ्गे सिद्धे यत्र यत्रानावरणं तत्र तत्र सर्वत्राऽऽकाशमिति सर्वगतत्वमप्याकाशस्य सिद्धमित्याह-तथाऽमूर्तस्येति । श्रोत्रसद्भावे प्रमाणमाह -शब्दग्रहणेति । क्रिया हि करण- साध्या दृष्टा । यथा छिदादिर्वास्यादिसाध्या। तदिह शब्दग्रहणक्रिययाऽपि करणसाध्यया भवितव्यं, यच्च करणं तच्च श्रोत्रमिति । अथास्याश्चक्षुरादय एव कस्मात्करणं न भवन्तीत्यत आह-बधिराबधिरयोरिति । अन्वयव्यतिरेकाभ्यामवधारणम् । उपलक्षणं चैतत्वग्वा- तयोश्चक्षुस्तेजसो रसनोदकयोर्नासिकापृथिव्योः संबन्धसंयमाद्दिव्यत्वगाद्यप्यूहनीयम् ॥४१॥ - - - १. ख. च. ज. 'स्याप्यन्यवाना।