पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

0 ३.९:]. ... ... . पातञ्जलयोगसूत्राणि । . . .

लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः पतिष्ठेत्यर्थः । तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिवलाद्भवति । प्रचारसंवेदनं व चित्तस्य समाधिजमेव । कर्मबन्धक्षयात्स्वचित्तस्य प्रचारसंवेदनाश्च योगी चित्तं स्वशरीरान्निष्कृष्य

शरीरान्तरेषु निक्षिपत्ति । निक्षिप्तं चित्तं चेन्द्रियाण्यनु पतन्ति । यथा मधुकरराजानं मक्षिका उत्पतन्तमनुत्पतन्ति निविशमानमनु निविक्षन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनु विधीयन्त इति ॥ ३८॥ .. . . . . . .

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३.३९ ॥

समस्तेन्द्रियवृत्तिः प्रागादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात्समानश्चाऽऽनाभिवृत्तिः । अपनयनादपान आपादतलवृत्तिः । उन्न-


समाधिवलादिति । बन्धकारणेविषयसंयमबलात्प्राधान्यत्समाधिग्रहणम् । प्रचरत्मनेनास्मिन्निति प्रचारः । चित्तस्य गमागमाध्वानो नाड्यस्तस्मिन्प्रचारे संयमात्तद्वेदनं, तस्माञ्च बन्धकारणशैथिल्यान्न तेन प्रतिबध्यते । अप्रतिबद्धमप्युन्मार्गेण गच्छन्न स्वशरीरादप्रत्यूहं निष्कामति । न च परशरीरमाविशति । तस्मात्तप्रचारोऽपि ज्ञातव्यः । इन्द्रियाणि च चित्तानुसारीणि परशरीरे यथाधिष्ठानं निविशन्त इति ॥ ३८ ॥ '. उदानजयाज्जलपङ्कन्कण्टकादिष्वसङ्ग उत्क्रान्तिश्च । समस्तेन्द्रियवृत्तिर्जीवनं प्राणादिलक्षणा प्राणादयो लक्षणं यस्याः सा तथोक्ता । द्वयीन्द्रियाणां वृत्तिर्बाह्याऽऽभ्यन्तरी च । बाह्या रूपाद्यालोचनलक्षणा । आभ्यन्तरी तु जीवनं, सा हि प्रयत्नभेदः शरीरोपगृहीतमारुतक्रियाभेदहेतुः सर्वकरणसाधारणः । - यथाऽऽड्क:-"सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च" [ सां० का० २९ ] इति । तैरस्य लक्षणीयत्वात्तस्य प्रयत्नस्य क्रिया कार्यं पञ्चतयी। प्राण आ नासिकाग्रादा च हृदयादवस्थितः । अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं नयन्समानः । आ हृदयादा च नाभेरस्यावस्थानम् । मूत्रपुरीषगर्भादीनामपनयनहेतुरपानः । आ १ख झ. "णसं २क, ख. झ.स।