पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६ वाचस्पतिकृतटीकासंवलिसव्यासभागष्यसमेतानि- [ ३ विभूतिपादे,

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३.३६॥

प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् । श्रावणा- दिव्यशब्दश्रवणम् । वेदनादिव्यस्पर्शाधिगमः । आदर्शाद्दिव्यरूपसंवित् । आस्वादादिव्यरससंवित् । वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते ॥३६॥

ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३.३७ ॥

ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास्तदर्शप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः॥३७॥

बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३.३८ ॥

स च स्वार्थसंयमो न यावत्प्रधानं स्वकार्यं पुरुषज्ञानमभिनिर्वर्तयति तावत्तस्य पुरस्ताद्या विभूतीराधत्ते ताः सर्वा दर्शयति--ततः प्रातिभश्रावणवेदनादर्शा- स्वादवार्ता जायन्ते । तदनेन योगजधर्मानुगृहीतानां मनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां यथासंख्यं प्रातिभज्ञानदिव्यशब्दाद्यपरोक्षहेतुभावा उक्ताः । श्रोत्रादीनां पञ्चानां दिव्यशब्दाद्युपलम्भकानां तान्त्रिक्यः संज्ञाः श्रावणाद्याः । सुगभं भाष्यम् ॥ ३६ ॥ कदाचिदात्मविषयसंयमे प्रवृत्तस्तत्प्रभावादमूर्त्थान्तरसिद्धीरधिगम्य कृतार्थमन्यः संयमाद्विरभेदत आह-ते समाधाधुपसर्गा व्युत्थाने सिद्धयः । व्युस्थितचित्तो हि ताः सिद्धीरभिमन्यते । जन्मदुर्गत इवं द्रविणकणिकामपि द्रविणसंभारम् । योगिना तु समाहितचित्तेनोपनताभ्योऽपि ताभ्यो विरन्तव्यम् । अभिसंहिततापत्रयात्यन्तिकोपशमरूपपरम- पुरुषार्थः स खल्वयं कथं तत्प्रत्यनीकासु सिद्धिष रज्येतेति सूत्रभाष्ययार्थः ॥ ३७॥ . तदेवं ज्ञानरूपमैश्वर्यं पुरुषदर्शनान्तं संयमफलमुक्त्वा क्रियरूपमैश्वर्यं संयमफलमाह--बन्धकारणशैथिल्याप्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । - रस. चं. ज. निधार ख. स. भाव उक्तः । भो ।