पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५]
१५५
पातञ्जलयोगसूत्राणि ।

शीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम् । तस्माच सत्त्वा.
त्परिणामिनोऽत्यन्तविधर्मा विशुद्धोऽन्यश्चितिमात्ररूपः पुरुषः ।
तयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शित-
विषयत्वात् । स भोगपत्ययः सत्त्वस्य परार्थत्यादृश्यः।

यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र
संयमात्पुरुषविषया प्रज्ञा जायते । न च पुरुषप्रत्ययेन बुद्धिसत्त्वा-
त्मना पुरुषो दृश्यते । पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं
पश्यति । तथा छुक्तम्-" विज्ञातारमरे केन विजानीयात् "
[बृ० २।४ । १४ ] इति ।। ३५ ।।


तस्माचेति । चकारोऽप्यर्थः । न केवलं रजस्तमोभ्यामित्यर्थः । परिणामिन इति वैधर्म- मपरिणामिनः पुरुषादुक्तम् । प्रत्ययाविशेषः शान्तघोरमूढरूपाया बुद्धेश्चैतन्यबिम्बोद्ग्राहेण चैतन्यस्य शान्ताद्याकाराभ्यारोपश्चन्द्रमस इव स्वच्छसलिलप्रतिबिम्बितस्य तत्कम्पात्कम्पना. रोपः । भोगहेतुमाह-दर्शितविषयत्वादिति । असकद्वय ख्यातम् । ननु बुद्धिसत्त्वमस्तु [१]पुरुषभिन्नं भोगस्तु पुंसः कुतो भिद्यत इत्यत आह-स भोगप्रत्ययो भोगरूपः प्रत्ययः सत्त्वस्यातः परार्थत्वादृश्यो भोग्यः । सत्त्वं हि परार्थ संहतत्वात्तद्धर्मश्च भोग इति सोऽपि परार्थः । यस्मै च परस्मा असौ तस्५ भोक्तु ग्यः । अथवाऽनुकूलपतिकूलवेद- भीयस्तु सुखदुःखानुभयो भोगः । न चायमात्मानमेवानुकूलयति प्रतिक्लयति वा, स्वात्मनि वृत्तिविरोधादतोऽनुकूलनीयप्रतिकलनीयाथों भोगः । स भोक्ताऽऽत्मा तस्य दृश्यो भोग्य इति ।

यस्तु तस्मात्परार्थाद्विशिष्ट इति । [२]परीर्थादिति पञ्चम्पन्यपदाध्याहारेण व्याख्याता । स्यादेतत्पुरुषविषया चेत्प्रज्ञा हन्त भोः पुरुषः पज्ञायाः प्रज्ञेय इति प्रज्ञ.न्तरमेव तत्र तत्रेत्यनवस्थापात इत्यत आह-न च पुरुपप्रत्ययेनेति । अयमभिसंधिः-चित्या जडः प्रकाश्यते । न जडेन चितिः । पुरुषप्रत्ययस्वचिदात्मा कथं चिदात्मानं प्रकाशयेत् । चिदात्मा स्वपराधीनप्रकाशो जडं प्रकाशयतीति युक्तम् । बुद्धिसत्त्वात्मनेत्यचिद्रूपतादा- रम्थेन जडत्वमाह । बुद्धिसत्त्वगतपुरुषप्रतिबिम्बालम्बनात्पुरुषालम्बनं[३] न तु पुरुषप्रकाश. नात्पुरुषालम्बनम् । बुद्धिसत्त्वमेव तु तेन प्रत्यन संक.न्तपुरुषप्रतिबिम्बं पुरुषच्छायापन चैतन्यमालम्बत इति [४]पुरुषार्थः । [५]अत्रैव श्रुतिमुदाहरति-तथा युक्तमीश्वरेण विज्ञातारमिति । व केनचिदित्यर्थः ॥ ३५ ॥

  1. १. 'रुषाभिनं।
  2. २ क. राशी आदि ।
  3. ३ क. "नं दर्पणवन्मुखालम्बनं न
  4. ४ जकमातृ
  5. ५ ज. लवैत्।