प्रातिभाद्वा सर्वम् ॥ ३.३३ ॥
प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम् । यथो-
दये प्रभा भास्करस्य । तेन वा सर्वमेव जानाति योगी प्राति-
भस्य ज्ञानस्योत्पत्ताविति ।। ३३ ॥
हृदये चित्तसंवित् ॥ ३.३४॥
यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं सस्मि-
न्संयमाञ्चित्तसंवित् ॥ ३४ ॥
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३.३५ ॥
बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिवन्धने रजस्तमसी
प्रातिभावा सर्वम् । प्रतिभोहस्तद्भवं प्रातिभम् । प्रसंख्यानहेतुसंयमवतो हि तत्प्रकर्षे प्रसंख्यानोदयपूर्वलिङ्गं यदूहजं ज्ञानं तेन सर्व विजानाति योगी । तच्च प्रसं- ख्यानसंनिधापनेन संसारात्तारयतीति तारकम् ॥ ३३ ॥
हृदये चित्तसंवित् । हृदयपदं व्याचष्टे -यदिदमस्मिन्ब्रह्मपुरे । बृहत्त्वादात्मा ब्रह्म तस्य पुरं निलस्तद्धि तत्र विजानाति स्वमिति । दहरं गतं तदेव पुण्डरीकम- धोमुखं वेश्म मनसः । चित्तसंवेदनावे हेतुमाह -तत्र विज्ञानं तत्र संयमाचित्तं विजानाति स्ववृत्तिविशिष्टम् ॥ ३४ ॥
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परीर्थात्स्वार्थसंयमा- स्पुरुषज्ञानम् । यत्र प्रकाशरूपस्यातिस्वच्छस्य नितान्ताभिभूतरजस्तमस्तया विवेक- ख्यातिरूपेण परिणतस्य बुद्धिसत्त्वस्याऽऽत्यन्तिकश्चैतन्यादसंकरस्तत्र कैव कथा रजस्तमसोर्जडस्वभावयोरित्याशयवा-सूत्रकारः सत्त्वपुरुषयोरित्युवाच । इममेवाभिप्रायं गृहीत्वा भाष्यकारोऽप्याह -बुद्धिसत्त्वं प्रख्याशीलमिति । न प्रख्याशीलमात्रमपि तु विवेकख्यातिरूपेण परिणतमतो नितान्तशुद्धप्रकाशतयाऽत्यन्तसारूप्यं चैतन्येनेति संकर इत्यत आह -समानेति । सत्त्वेनोपनिबन्धनमविनाभावः संबन्धः, समानम् सत्वोपनिबन्धनं वयो रजस्तमसोस्ते तथोक्त । वशीकारोऽभिभवः । असंकरमाह-
- ↑ १ क. ख. ग. घ. स. छ. रार्थत्वात्स्वा । २ क. 'रार्थत्वात्स्वा । ३ ख. ज. नेस्य ।