पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२० २७-३२ ]
१५३
पातञ्जलयोगसूत्राणि ।

चन्द्रे ताराव्युहज्ञानम् ॥ २७ ॥

चन्द्रे संयमे कृत्वा ताराणां व्यूह विजानीयात् ॥ २७ ॥

ध्रुवे तद्गविज्ञानम् ॥ २८ ॥

ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् । ऊर्य.
विमानेषु कृतसंयमस्तानि विजानीयात् ॥ २८ ॥

नाभिचके कायव्यूहज्ञानम् ॥ २९ ॥

नाभिचक्रे संयमं कृत्वा कायन्यूह विजानीयात् । वातपित्त-
लेष्माणखयो दोषाः । पातवः सप्त त्वग्लोहितांसनायवस्थि-
मजाशुक्राणि । पूर्व पूर्वमेषां वायमित्येष विन्यासः ॥ २९ ॥

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥

जिताया अधस्तात्तन्तुस्तन्तोरवस्तात्कण्ठस्ततोऽधस्तात्कूप-
स्तत्र संयमात्क्षुत्पिपासे न बाते ॥ ३० ॥

कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥

  कूपादध उरसि कूर्माकारा नाही, तस्यां कृतसंयमः स्थिर-
पदं लभते । यथा सो गोधां वेति ॥ ३१॥

मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥

  शिरःकपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिस्तत्र संयम कृत्वा
सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ॥ ३२ ।।


चन्द्रे ताराव्यूहज्ञानम् । ध्रुवे तद्गतिज्ञानम् । नाभिचक्रे कायव्यूहन्नानम् । कण्ठकूपे क्षुत्पिपासानिवृत्तिः। कर्मनाड्या स्थैर्यम् । तत्र तत्र जिज्ञासायां योगि. नस्तत्र तत्र संयमः । एवं क्षुत्पिपासानिवृत्तिहेतुः संयमः स्थैर्यहतुश्च सूत्रपदैरुपदिष्टो भाष्यण च निगदव्याख्यातेन व्याख्यात इति न व्याख्यातः ॥ २७ ॥ २८ ॥ ॥ २९ ॥ ३० ॥ ३१॥

  मूर्धज्योतिषि सिद्धदर्शनम् । मूर्धशब्देन सुषुम्ना नाडी लक्ष्यते तत्र संयम इति ॥ ३२ ॥


[१]

  1. १ क. ख. षु संयमं कृत्वा तानि । २ ज. ठकृप' । ३ क. ख. चेति । ४ ज. छिदं । ५ ज. भासुरवाज्ज्योति । ६ ग, प..च, ज. 'यमासिद्धा । १०