पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२ .
[ ३ विभूतिपादै--
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतामि-

हनज्ञाना अधरभूमिष्वनातज्ञानविषयाः । तृतीये ब्रह्मणः सत्य- लोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उप- युपरिस्थिताः प्रधानवशिनो यावत्सर्गायुषः।

तत्राच्युताः सवितर्कभ्यानसुखाः, शुद्धनिवासाः सविचार-
ध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, संज्ञासंज्ञिनश्चा-
स्मितामात्रध्यानसुखाः। तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति । त
एते सप्त लोकाः सर्व एव ब्रह्मलोकाः । विदेहमतिलयास्तु
मोक्षपद वतन्त इति न लोकमध्ये न्यस्ता इति । एतयोगिना
साक्षात्करणीयं सूर्यद्वारे संययं कृत्वा, ततोऽन्यत्रापि एवं ताव-
दभ्यसेद्यावदिदं सर्व दृष्टमिति ॥ २६ ॥

ततीय इति । भकृतो भवनस्य गृहस्य न्यासो यैस्ते तथोक्ताः । आधाराभावादेव स्वप्र. तिष्ठाः । स्वेषु शरीरेषु प्रतिष्ठा येषां ते तथोक्ताः । प्रधानवशिनस्तदिच्छातः सत्वरजस्त.. मांसि प्रवर्तन्ते यावत्सर्गायुषः।

  तथाच श्रूयते---

" ब्रह्मणा सह ते सर्व संप्राप्ते प्रतिसंचरे।।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् "

  [कू० पु० पू० ख० १२ । २६९ ] इति ॥

  तदेवं चतुणों देवनिकायानां साधारणधर्मानुक्त्वा नामविशेषग्रहणेन धर्मविशेषानाह- तत्रेति । अच्युता नाम देवाः स्थूलविषयध्यानमुखास्तेन ते तृप्यन्ति । शुद्धनिवासा नाम देवाः सूक्ष्मविषयध्यानमुखास्तेन ते तृप्यन्ति । सत्याभा नाम देवा इन्द्रियविषयध्यानमुखा- स्तेन ते तृप्यन्ति । संज्ञासंझिनो नाम देवा अस्मितामात्रध्यानमुखास्तेन ते तृष्यन्ति । त एते सर्वे संप्रज्ञातसमाधिमुपासते । अथासंप्रज्ञातसमाधिनिष्ठा विदेहप्रकृतिलया: कस्मान्न लोकमध्ये न्यस्यन्त इत्यत आह -विदेहप्रकृतिलयास्त्विति । बुद्धिवृत्तिमन्तो हि दर्शि- तविषया लाकयात्रां वहन्तो लोकेषु वर्तन्ते । नचैत्रं विदेहप्रकृतिलयाः सत्यपि साधि- कारत्व इत्यर्थः । तदेतदासत्यलोकमा चावीचेोगिना साक्षात्करणीयं, सूर्यद्वारे सुषुम्नायां नाड्याम् । न चैतावताऽपि तत्साक्षात्कारो भवतीत्यत आह -एवं तावदन्यत्रापि सुषु. म्नाया अन्यत्रापि योगोपाध्यायोपदिष्टेषु यावदिदं सर्वं जगदृष्टमिति । बुद्धिसत्त्रं हि स्वभावत एव विश्वप्रकाशनसमर्थ तमोमलावतं यत्रैव रजसोद्घाय्यते तदेव प्रकाशयति । सूर्यद्वारसंयमोद्घाटितं तु भुवनं प्रकाशयति । न चैवमन्यत्रापि प्रसङ्गस्तत्संयमस्य तावन्मा. त्रोद्घाटनसामर्थ्यादिति सर्वमवदातम् ॥ २६ ॥

[१]

  1. १ क, ख. ज. ज. सर्व सत्रमकाः । २ ग, घ, ड. ज. तिन्ले न ।