पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=सू०.२६]|center=पातञ्जलयोगसूत्राणि ।|right=१५१

सू०.२६] पातञ्जलयोगसूत्राणि । १५१ माहेन्द्रनिवासिनः षड्देवनिकायाः-त्रिदशा अग्निष्वात्ता योम्यास्तुपिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश्चेति । सर्वे संकल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिरप्स-रोभिः कृतपरिचाराः। महति लोके पाजापत्ये पञ्चविधो देवनिकाय:-कुमुदा ऋभवः प्रतर्दना अञ्जनामाः प्रचिताभा इति । एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः । प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्मम- हाकायिका अमरा इति । ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः। द्वितीये तपसि लोके त्रिविधो देवनिकाय:-आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति । ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमपति- स्वर्लोकमादर्शयति-माहेन्द्रनिवासिन इति । देवनिकाया देवजातयः । षण्णामपि देवनिकायानां रूपोत्कर्षमाह-सर्वे संकल्पसिद्धा इति । संकल्पमात्रादेवैषां विषया उपनमन्ति । वृन्दारकाः पूज्याः । कामभोगिनो मैथुनप्रियाः । औपपादिकदेहाः पित्रोः संयोगमन्तरेणाकस्मादेव दिव्यं शरीरमेषां धर्मविशेषातिसंस्कृतेभ्योऽणुभ्यो भूतेम्यो भवतीति । महर्लोकमाह-महतीति । महाभूतवशिनः । यद्यदेतेभ्यो रोचते तत्तदेव महाभूतानि प्रयच्छन्ति । तदिच्छातश्च महाभूतानि तेन तेन संस्थानेनावतिष्ठन्ते । ध्यानाहारा ध्यानमात्रतृप्ताः पुष्टा भवन्ति । जनलोकमाह-प्रथम इत्युक्तक्रमेण । भूतेन्द्रियवशिन इति । भूतानि पृथिव्यादीनीन्द्रियाणि श्रोत्रादीनि यथा नियोक्तुमिच्छन्ति तथैव नियुज्यन्ते । उक्तक्रमापेक्षया द्वितीयं ब्रह्मणस्तपोलोकमाह-द्वितीय इति । भूतेन्द्रियप्रकृति- वशिन इति । प्रकृतिः पञ्च तन्मात्राणि तद्वशिनस्तदिच्छातो हि तन्मात्राण्येव कायाकारेण परिणमन्त इत्यागभिनः । द्विगुणेत्याभास्वरेभ्यो द्विगुणायुषो महाभास्वरास्तेभ्योऽपि द्विगुणायुषः सत्यमहाभास्वरा इत्यर्थः । ऊर्ध्वमित्यूर्ध्वं सत्यलोकेऽप्रतिहतज्ञाना अवीचेस्तु प्रभृत्यातपोलोकं सूक्ष्मव्यवहितादि सर्वं विजानन्तीत्यर्थः । तृतीयं ब्रह्मणः सत्यलोकमाह- १ क. ख. यामास्तु । २ क. ख. 'ति । ते स । ३ ग. घ. च. ज. रिवाराः । ४ ख. च. अजना। ५क. ख. चित्ताभा ।

 माहेन्द्रनिवासिनः षड्देवनिकाया:-त्रिदशा अनिष्वात्ता
योम्यास्तुपिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिन-
श्रेति[१] । सर्वे संकल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो
सृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिरप्स-
रोभिः कृतपरिचाराः।

 महति लोके पाजापत्ये पञ्चविधो देवनिकायः-कुमुंदा
ऋभवः प्रतर्दना अञ्जनाभाः प्रचितामा इति । एते महाभूतव-
शिनो ध्यानाहाराः कल्पसहस्रायुषः । प्रथमे ब्रह्मणो जनलोके
चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्मम-
हाकायिका अमरा इति । ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्त-
रायुषः।

 द्वितीये तपसि लोके त्रिविधो देवनिकायः-आभास्वरा
महाभास्वराः सत्यमहाभास्वरा इति । ते भूतेन्द्रियप्रकृतिवशिनो
द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रति-

स्वर्लोकमादर्शयति-माहेन्द्रनिवासिन इति । देवनिकाया देवजातयः । षण्णामपि

देवनिकायानां रूपोत्कर्षमाह-सर्वे संकल्पसिद्धा इति । संकल्पमात्रादेवैषां विषया उपनमन्ति । वृन्दारकाः पूज्याः । कामभोगिनो मैथुनप्रियाः । औपपादिकदेहाः पित्रोः संयोगमन्तरेणाकस्मादेव दिव्यं शरीरमेषां धर्मविशेषातिसंस्कृतेभ्योऽणुम्यो भूतेम्यो भवतीति ।

महर्लोकमाह-महतीति । महाभूतवशिनः । यद्यदेतेभ्यो रोचते तत्तदेव महाभू-

तानि प्रयच्छन्ति । तदिच्छातश्च महाभूतानि तेन तेन संस्थानेनावतिष्ठन्ते । ध्यानाहारा ध्यानमात्रतृप्ताः पुष्टा भवन्ति । जनलोकमाह-प्रथम इत्युक्तक्रमेण । भूतेन्द्रियवशिन इति । भूतानि पृथिव्यादीनन्द्रियाणि श्रोत्रादीनि यथा नियोक्तुमिच्छन्ति तथैव नियुज्यन्ते ।

उक्तक्रमापेक्षया द्वितीयं ब्रह्मणस्तपोलोकमाह-द्वितीय इति । भूतेन्द्रियप्रकृति-

वशिन इति । प्रकृतिः पञ्च तन्मात्राणि तद्वशिनस्तदिच्छाती हि तन्मात्र,ण्येव काया- कारेण परिणमन्त इत्यागभिनः । द्विगुणेत्याभास्वरेभ्यो द्विगुणायुधो महाभास्वरास्तेभ्योऽपि द्विगुणायुषः सत्यमहाभास्वरा इत्यर्थः । ऊर्ध्वमित्यूध सत्यलोकेऽप्रतिहतज्ञाना अवीचेस्तु प्रभूत्यातपोलोकं सूक्ष्मव्यवहितादि सर्व विजानेन्तीत्यर्थः । तृतीयं ब्रह्मणः सत्यलोकमाह-

  1. २ क. ख. ति । तेस