पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

=सू०१८] पातञ्जलयोगसूत्राणि। १४५
संस्कारसामाक्रियायै समर्थः । न च देशकालनिमित्तानुभवै.
विना तेषामस्ति साक्षात्करणम् । तदित्थं संस्कारसाक्षात्कर-
णात्पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्राप्येवमेव संस्कारसा-
क्षात्करणात्परजातिसंवेदनम् ।
' अत्रेदमाख्यानं श्रूयते--भगवतो जैगीषव्यस्य संस्कारसाक्षा-
करणादना महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं
झानं प्रादुरभूत् । अथ भगवानावट्यस्तनुधरस्तमुवाच-दशसु
महासर्गेषु भव्यत्त्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भ-
संभवं दुःखं संपश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन सुखदुः-
खयोः किमधिकमुपलब्धमिति । भगवन्तमावस्यं जैगीषव्य उवाच-
दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्वेन मया नरकतिर्य-
म्भवं दुःखं संपश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन यत्किचि-
दनुभूतं तत्सर्व दुःखमेव प्रत्यवैमि । भगवानावब्य उवाच-
यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च संतोषसुखं किमिदमपि
दुःखपक्षे निक्षिप्तमिति । भगवाजैगीषव्य उवाच-विषयसुखा-
पेक्षयैवेदमनुत्तमं संतोषसुखमुक्तम् । कैवल्यसुखापेक्षया दुःखमेव ।
बुद्धिसत्त्वस्यायं धर्मत्रिगुणस्त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति
दुःखरूपस्तृष्णातन्तुः । तृष्णादुःखसंतापापगमात्तु प्रसन्नमबाधं
सानुकूलं सुखमिदमुक्तमिति ।। १८ ॥
सपरिकरेषु संयमः संस्काराणां द्वयेषां साक्षास्क्रियायै समर्थः । अस्तु तत्र संयमात्तत्साक्षात्कारः
पूर्वजातिसाक्षात्कारस्तु कुतै इत्यत आह-न च देशेति । निमित्तं पूर्वशरीरमिन्द्रियादि
च । सानुबन्धसंस्कारसाक्षात्कार एव नान्तरीयकतया जात्यादिसाक्षात्कारमाक्षिपतीत्यर्थः ।
स्वसंस्कारसंयम परकीयेष्वतिदिशति-परत्राप्येवमिति ।
__ अत्र श्रद्धोत्पोदे हेतुमनुभवत आवट्यत्य जैगीपव्येण संवादमुपन्यस्यति-अत्रेदमा-
ख्यानं श्रूयत इति । महाकल्पो महासर्गः । तनुधर इति निर्माणकायसंपदुक्ता । भव्यः
शोभनो विगलितरजस्तमोमल इत्यर्थः । प्रधानवशित्वमैश्वर्य सेन हि प्रधानं विक्षोभ्य यस्मै
यादृशी कायेन्द्रियसंपदं दित्सति तस्मै तादृशी दत्ते । स्वकीयानि च कायेन्द्रियसहस्राणि
निर्मायान्तरिक्ष दिवि भुवि च यथेच्छं विहरतीति । संतोषो हि तृष्णाक्षयो बुद्धिसत्त्वस्य
प्रशान्तता धर्मः ॥ १८ ॥
१ ग. घ. ङ. च. °वल्यापे । २ छ, 'तस्तदृष्टार्थ । ३ ख. "तस्य इ १ स.
'त्यादहेतुं भगव' । ज. पाहे । ५ झ. परकी भाभि ।

{{{{center==स्कारसामाक्रियायै समर्थः । न च देशकालनिमित्तानुभवै. विना तेषामस्ति साक्षात्करणम् । तदित्थं संस्कारसाक्षात्कर- णात्पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्राप्येवमेव संस्कारसा- क्षात्करणात्परजातिसंवेदनम् । ' अत्रेदमाख्यानं श्रूयते--भगवतो जैगीषव्यस्य संस्कारसाक्षा- करणादना महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं झानं प्रादुरभूत् । अथ भगवानावट्यस्तनुधरस्तमुवाच-दशसु महासर्गेषु भव्यत्त्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भ- संभवं दुःखं संपश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन सुखदुः- खयोः किमधिकमुपलब्धमिति । भगवन्तमावस्यं जैगीषव्य उवाच- दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्वेन मया नरकतिर्य- म्भवं दुःखं संपश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन यत्किचि- दनुभूतं तत्सर्व दुःखमेव प्रत्यवैमि । भगवानावब्य उवाच- यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च संतोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति । भगवाजैगीषव्य उवाच-विषयसुखा- पेक्षयैवेदमनुत्तमं संतोषसुखमुक्तम् । कैवल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मत्रिगुणस्त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति दुःखरूपस्तृष्णातन्तुः । तृष्णादुःखसंतापापगमात्तु प्रसन्नमबाधं सानुकूलं सुखमिदमुक्तमिति ।। १८ ॥}}

सू०१८]
१४५
पातञ्जलयोगसूत्राणि।

सू०१८] |पातञ्जलयोगसूत्राणि।| १४५

संस्कारसाक्षात्क्रियायै समर्थः, न च देशकालनिमित्तानुभवै विना तेषामस्ति साक्षात्करणम्। तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः। परत्राप्येवमेव संस्कारसाक्षात्करणात्परजातिसंवेदनम्।


अत्रेदमाख्यानं श्रूयते – भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद् दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत्। अथ भगवानावट्यस्तनुधरस्तमुवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धमिति। भगवन्तमावट्यं जैगीषव्य उवाच – दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत् किञ्चिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि। भगवानावट्य उवाच – यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च संतोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति। भगवान् जैगीषव्य उवाच – विषयसुखापेक्षयैवेदमनुत्तमं संतोषसुखमुक्तम्, कैवल्यापेक्षया दुःखमेव। बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणः, त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति। दुःखस्वरूपस्तृष्णातन्तुः, तृष्णादुःखसन्तापापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति।।18।।


सपरिकरेषु संयमः संस्काराणां द्वयेषां साक्षास्क्रियायै समर्थः । अस्तु तत्र संयमात्तत्साक्षात्कारः पूर्वजातिसाक्षात्कारस्तु कुतै इत्यत आह-न च देशेति । निमित्तं पूर्वशरीरमिन्द्रियादि च । सानुबन्धसंस्कारसाक्षात्कारस्तु एव नान्तरीयकतया जात्यादिसाक्षात्कारमाक्षिपतीत्यर्थः । स्वसंस्कारसंयम परकीयेष्वतिदिशति-परत्राप्येवमिति । __ अत्र श्रद्धोत्पोदे हेतुमनुभवत आवट्यत्य जैगीपव्येण संवादमुपन्यस्यति-अत्रेदमा- ख्यानं श्रूयत इति । महाकल्पो महासर्गः । तनुधर इति निर्माणकायसंपदुक्ता । भव्यः शोभनो विगलितरजस्तमोमल इत्यर्थः । प्रधानवशित्वमैश्वर्य तेन हि प्रधानं विक्षोभ्य यस्मै यादृशी कायेन्द्रियसंपदं दित्सति तस्मै तादृशी दत्ते । स्वकीयानि च कायेन्द्रियसहस्राणि निर्मायान्तरिक्षे दिवि भुवि च यथेच्छं विहरतीति । संतोषो हि तृष्णाक्षयो बुद्धिसत्त्वस्य प्रशान्तता धर्मः ॥ १८ ॥ १ ग. घ. ङ. च. °वल्यापे । २ छ, 'तस्तदृष्टार्थ । ३ ख. "तस्य इ १ स. 'त्यादहेतुं भगव' । ज. पाहे । ५ झ. परकी भाभि । १