पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
[ ३ विभूतिपादे-
वाचस्पतिकृतटीफासंवलितव्यासभाष्यसमेतानि-

प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥

प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम् ॥ १९ ॥

न चं तत्सालम्बनं तस्या-
विषयीभूतत्वात् ॥ २० ॥

रक्तं प्रत्ययं जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति ।
परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नाऽऽलम्बनीकृतं परम-
त्ययमात्रं तु योगिचित्तस्याऽऽलम्बनीभूतमिति ॥ २० ॥

कायरूपसयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षु-
ष्प्रकाशसिंप्रयोगेऽन्तर्धानम् ॥ २१ ॥

कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टन्नाति ।
ग्राह्यशक्तिस्तम्भे सति चक्षुष्प्रकाशासंप्रयोगेऽन्तर्धानमुत्पद्यते
योगिनः । एतेन शब्दाधन्तर्धानमुक्तं वेदितव्यम् ॥ २१ ॥


प्रत्ययस्य परचित्तज्ञानम् । प्रत्ययस्य परचित्तज्ञानम् । परप्रत्ययस्य चित्तमात्रस्य साक्षात्करणादिति ॥ १९ ॥

यथा संस्कारसाक्षात्कारस्तदनुबन्धपूर्वजन्मसाक्षात्कारमाक्षिपत्येवं परचित्तसाक्षात्कारोऽपि तदालम्बनसाक्षात्कारमाक्षिपेदिति प्राप्त आह--नंच तत्सालम्बनं तस्याविषयीभू- तत्वात् । सानुबन्धसंस्कारविषयोऽसौ संयमोऽयं तु परचित्तमात्रविषय ड़यभिप्रायः ॥२०॥

कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुषकाशासंप्रयोगेऽन्तर्धानम् । पञ्चात्मकः कायः । स च रूपवत्तया चाक्षुषो भवति । रूपेणं हि कायश्च तद्रूपं च चक्षुर्ग्रहणकर्म-शक्तिमनुभवति । तत्र यदा रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य ग्राह्यशक्ती रूपवत्कायप्रत्यक्षताहेतुः स्तम्भ्यते । तस्माद्ग्राह्यशक्तिस्तम्भे सत्यन्तर्धानं योगिनस्ततः परकीयचक्षुर्जरितेन प्रकाशेन ज्ञानेनासंप्रयोगश्चक्षुर्ज्ञानाविषयत्वं योगिनः कायस्येति यावत् ।तस्मिन्कर्तव्येऽन्तर्धानं कारणमित्यर्थः । एतेनेति ।कायशब्दस्पर्शरसगन्धसंयमात्तद्ग्रासशक्तिस्तम्भे श्रोत्रत्वग्रसनघ्राणप्रकाशासंप्रयोगेऽन्तर्धानमिति सूत्रमूहनीयम् ॥ २१ ॥


[१]

  1. १ . च साल । २ ख. च. संयो । ३ क. च. °संयो' । ४ क. ख. न चाते । सा।