एतत् पृष्ठम् परिष्कृतम् अस्ति
· वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे-
क्रियाकारकात्मा तदर्थः प्रत्ययश्च । कस्मात् । सोऽयमित्याभि- संबन्धादेकाकार एव प्रत्ययः संकेत इति ।
__ यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः । स हि
स्वाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः । एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्यन्यथा शब्दोऽन्य- थाऽर्थोऽन्यथा प्रत्यय इति विभागः । एवं तत्प्रविभागसंयमा- योगिनः सर्वभूतरुतज्ञानं संपद्यत इति ॥ १७ ॥
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८॥
व्यासभाष्यम् - द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपाः, विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः परिणाम – चेष्टा – निरोध – शक्ति जीवन – धर्मवदपरिदृष्टाश्वित्तधर्माः। तेषु संयमः
अर्थ विभजते-क्रियाकारकात्मा तदर्थस्तयोः शब्दयोरर्थः क्रियात्मा कारकात्मा च । प्रत्ययं विभजते-प्रत्ययश्चेति । चशब्देन तदर्थ इत्येतत्पदमत्रानुकृष्यते । तदत्रान्यपदार्थ. प्रधानं संबध्यते । स एव क्रियाकारकात्माऽर्थो यस्य स तथोक्तः । नन्वभेदेन प्रतीते: शब्दार्थप्रत्ययानां संकरात्कुतः प्रविभाग इत्याशयवान्पृच्छति-कस्मादिति । उत्तरमाह- सोऽयमित्यभिसंबन्धादिति । संकेतोपाधिरेकाकारप्रत्ययो नतु तात्त्विक इत्यर्थः । संकेतस्य निमित्तता दर्शिता संकेत इति सप्तम्या । परमार्थमाह-यस्तु श्वेतोऽर्थ इति । अवस्था नवपुराणत्वादयः । सहगतः संकीर्णः । एवं च प्रविभागसंयमाद्यागिनः सर्वेषां भूतानां पशुमृगसरीसृपवयःप्रभृतीनां यानि रुतानि तत्राप्यव्यक्तं पदं तदर्थस्तत्प्रत्ययश्चेति । तदिह मनुष्यवचनवाच्यप्रत्ययेषु कृतः संयमः समानजातीयतया तेष्वपि कृत एवेति । तेषां रुतं तदर्थभेदं तत्प्रत्ययं च योगी जाना. तीति सिद्धम् ॥ १७॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् । ज्ञानजा हि संस्काराः स्मृतियोऽविद्या- दिसंस्कारा अविद्यादीनां क्लेशानां हेतवः । विपाको जात्यायुर्भोगरूपस्तस्य हेतवो धर्माधर्मरूपाः । पूर्वेषु भवेष्वभिसंस्कृता निष्पादिताः स्वकारणैर्यथासंस्कृतं व्यञ्जनं कृतमिति गम्यते।
परिणामचेष्टानिरोधशक्ति जीवनान्येव धर्माश्चित्तस्य तद्वदपरिदृष्टाश्चित्तधर्मस्तेषु श्रुतेष्वनुमितेषु