पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १७]
१४३
पातञ्जलयोगसूत्राणि।

कर्तृकरणकर्मणां चैत्राग्नितण्डुलानामिति । दृष्टं च वाक्याथें पदरचनं श्रोत्रियश्छन्दोऽधीते, जीवति प्राणान्धारयति । तत्र वाक्ये पदार्थाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा । अन्यथा भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति ।

 तेषां शब्दार्थप्रत्ययानां प्रविभागः । तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः,

[१]

मपि पदं वाक्यार्थे वर्तमानं दृश्यत इति सुतरामस्ति वाक्यशक्तिः पदानामित्याह-दृष्टं चेति । न चैतावताऽपि श्रोत्रियादिपदस्य स्वतन्त्रस्यैवंविधार्थप्रत्यायनं न यावदस्त्यादिभिरभिसमासोऽस्य भवति । तथा चास्यापि वाक्यावयवत्वात्कल्पितत्वमेवेति भावः । स्यादेतपदानामेव चेद्वाक्यशक्तिः कृतं तर्हि वाक्येन तेभ्य एव तदर्थावसायादित्यत आह- तत्र वाक्य इति । उक्तमेतन्न केवलात्पदात्पदार्थः प्रतिपित्सितः प्रतीयते न यावदेतत्पदान्तरेणाभिसमस्यत इति । तथा च वाक्यात्पदान्यपोद्धृत कल्पितानि वाक्यार्थाच्चापोद्धृत्य तदेकदेशं कारकं वा क्रियां वा तत्पदं प्रकृत्य दिविभागकल्पनया व्याकरणीयमन्वाख्येयम् । किमर्थं पुनरेतावता क्लेशेनान्वाख्यायत इत्यत आह-अन्यथेति । घटो भवति भवति भिक्षां देहि भवति तिष्ठतीति नामाख्यातयोश्च साम्यात् । एवमश्वस्त्वमश्वो यातीति । एवमजापयः पिब, अजापयः शत्रूनिति नामाख्यातसारूप्यादनिर्ज्ञातं नामत्वेनाऽऽख्यातत्वेन वाऽन्याख्यानाभावे निष्कृष्याज्ञातं कथं क्रियायां कारके वा व्याक्रियेत । तस्माद्वाक्यात्पदान्यपोद्धृत्य व्याख्यातव्यानि । न त्वन्याख्यानादेव पारमार्थिके विभागः पदानामिति । तदेवं शब्दरूपं व्युत्पाद्य शब्दार्थप्रत्ययानां संकेतापादितसंकराणामसंकरमाख्यातुमुपक्रमते-तेषां शब्दार्थप्रत्ययानां प्रविभागस्तद्यथा श्वेतते प्रासाद इति क्रियार्थः शब्दः । स्फुटतरो ह्यत्र पूर्वापरीभूतायाः क्रियायाः साध्वरूपायाः सिद्धरूपः क्रियार्थः श्वेतत इति भिन्नः शब्दः । यत्रापि शब्दार्थयोः सिद्धरूपत्वं तत्राप्यर्थादस्ति शब्दस्य भेद इत्याह --श्वेतः प्रासाद इति कारकार्थः शब्दः । अभिहितत्वाञ्च कारकविभक्तेरभावः ।

  1. १. च । २ क. ख. ५ रू. च. °क्थे पदप । ३ ज. वाश्यार्थे । ४ ज. किगपई । ५ क. णीयं ब्याख्ये'। ६ क. ज. नमोनीमा । ख. ज. व्याख्यायेत । त। ८ ज, दार्थः सिद्धपस्तत्राप्यस्ति । ९ व. यस्य सि ।