पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
[३ विभूतिपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

सरूपः स्मत्यात्मको योऽयं शब्दः सोऽयमर्थो योऽयमर्थः सोऽयं शब्द इति । एवमितरेतराध्यासरूपः संकेतो भवतीति । एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात्संकीर्णा गौरिति शब्दो गौरि- त्यर्थो गौरिति ज्ञानम् । य एषां प्रविभागशः स सर्ववित् ।


 सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति गम्यते ।' न सत्तां पदार्थों व्यभिचरतीति। तथा न ह्यसाधना क्रियाऽस्तीति । तथाच पचतीत्युक्ते सर्वकारकाणामाक्षेपो नियमार्थोऽनुवादः| [१]

स्वरूपं यस्य स तथोक्तः । न हि कृत इत्येव संकेतोऽर्थमवधारयत्यपि तु स्मर्यमाणः । एतदुक्तं भवति-अभिन्नाकार एव संकेते कथंचिद्भेदं विकल्प्य षष्ठी प्रयुक्तेति । य एषां प्रविभागज्ञः स तत्र संयमे भवति सर्ववित्सर्वभूतरुतज्ञ इति । तदेवं विकल्पितवर्णभागमेकमनवयवं पदं व्युत्पाद्य कल्पितपदविभागं वाक्यमेकमनवयवं व्युत्पादयितुमाह--सर्वपदेषु चास्ति वाक्यशक्तिः । अयमभिसंधिः-परप्रत्यायनाय शब्दः प्रयुज्यते तत्र तदेव च परं प्रति प्रतिपादयितव्यं यत्तैः प्रतिपित्सितं, तदेव तैः प्रतिपित्सितं यदुपादानादिगोचरः । न च पदार्थमात्रं तद्गोचरः किंतु वाक्यार्थ इति वाक्यार्थपरा एव सर्वे शब्दास्तेन स एव तेषामर्थः । अतो यत्रापि केवलस्य पदस्य प्रयोगस्तत्रापि पदान्तरेण सहैकीकृत्य ततोऽर्थो गम्यते, न तु केवलात्कस्मात्तन्मात्रस्यासामर्थ्यात्तथा च वाक्यमेव तत्र तत्र वाचकं न तु पदानि । तद्भागतया तु तेषामप्यस्ति वाक्या- र्थवाचकशक्तिः पदार्थ इव पदभागतया वर्णानाम् । तेन यथा वर्ण एकैकः सर्वपदार्थाभिधानशक्तिः प्रचित एवं पदमप्येकैकं सर्ववाक्यार्थाभिधानशक्तिप्रचितम् । तदिदमुक्तम्- सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति गम्यते । अध्याहृतास्तिपदसहितं वृक्ष इति पदं वाक्यार्थे वर्तत इति तद्भागवाद्वृक्षपदं तत्र वर्तते । कस्मात्पुनरस्तीति गम्यत इत्यत आह-न सत्तां पदार्थों व्यभिचरतीति । लोक एव हि पदानामर्थावधारणोपायः । स च केवलं पदार्थमस्त्यर्थेनामिसमस्य सर्वत्र वाक्यार्थो करोति सोऽयमव्यभिचारः सत्तया पदार्थस्यात एव शब्दवृत्तिविदां व्यवहारो यत्रान्यत्क्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रयोक्तव्य इति । क्रियाभेदाव्यभिचारि प्रातिपदिकमुक्त्वा क्रियाभेदं कारकाव्यभिचारिणं दर्शयति- तथा च पचतीत्युक्त इति । पचतीत्युक्ते हि कारकपात्रस्य तदन्वययोग्यस्यावग मादन्यव्यावृत्तिपरस्तद्भेदानामनुवादः । तदेवं भेद एवं वाक्यार्थ इति तथाऽनपेक्ष-

  1. १ क. ख. कीर्णाः । तद्यथा गौ । २ ख. °था प° 1 ३ ज, क्यार्थे वा । ४ ख. ज. 'रोऽयं य । ५ झ. 'वतिर्वा प । ६ ख. ज. था ।