पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१ सू० १७]
१४१
. . पातञ्जलयोगसूत्राणि ।


=मन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्ग-
रेवाभिधीयमानः श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारवासनानु-
विद्धया लोकबुद्धया सिद्धवत्संप्रतिपत्त्या प्रतीयते ।।
• तस्य संकेतबुद्धितः प्रविभाग एतावतामेवंजातीयकोऽनुसंहार
एकस्यार्थस्य[१] वाचक इति । संकेतस्तु पदपदार्थयोरितरेतराध्या-


धानभेदात्पदमेव तेन तेनाऽऽकारणापरमार्थसता प्रथते । न हि मणिकृपाणदर्पणादिव. तीनि मुखानि मुखस्य परमार्थसतोऽवयवा इति । बौद्धमनुसंहारबुद्धौ विदितमन्यवर्णप्रत्य यस्य व्यापारः संस्कारः पूर्ववर्णानुभवजनितसंस्कारसहितस्तेनोपस्थापितं विषयीकृतम् । वर्णानुभवतत्तत्संस्काराणां च पदविषयत्वमुपयादितमधस्तात् । स्यादेतदभागमक्रममवर्ण[२] त्पदतत्त्वं कस्मादेवविध कदाचिन्न प्रथते नहि लाक्षारसाक्सेकोपधानापादितारुणभावः स्फटिकमणिस्तदपगमे स्वच्छधवलो नानुभूयते तस्मात्पारमार्थिका एव वर्णा इत्यत आह- परत्रेति । प्रतिपिपादयिषया वगैरेवाभिधीयमानरुच्चार्यमाणैः श्रयमाणैश्च श्रेतृभिरनादियोऽयं वाग्व्यवहारो विभक्तवर्णपदनिबन्धनस्तननिता वासना साऽप्यनादिरेव । तदनुविद्धया तद्वासितया लोकबुद्ध्या विभक्तवर्णरूषितपदावगाहिन्या सिद्धवत्परमार्थवत्संप्रतिपत्त्या संवा. देन वृद्धानां पदं प्रतीयते । एतदुक्तं भवति-अस्ति कश्चिदुपाधिर्य उपधेयेन संयुज्यते वियुज्यते च । यथा लाक्षादिस्तत्र तद्वियोगे स्फटिकः स्वाभाविकेन स्वच्छधवलेन रूपेण प्रकाशत इति युज्यते । पदप्रत्ययस्य तु प्रयत्नभेदोपनीतध्वनिभेदादन्यतोऽनुत्पादात्तस्य च मदा सादृश्कदोरूषिततया[३] वर्णात्मनैव प्रत्ययजनकत्वमिति कुतो निरुपाधिनः पदस्य प्रथा ।

=यथाऽऽg:--" ध्वनयः सदृशात्मानो विपर्यासस्य हेतवः ।
उपलम्भकमेतेषां विपर्यासस्य कारणम् ।
उपायत्वाच्च नियतः पददर्शितदार्शनाम् ।
ज्ञानस्यैव च बाधेयं लोके ध्रुवमुपप्लवः” इति ।


यतः पदात्मा विभक्तवर्णरूषितः प्रकाशतेऽतः स्थूलदर्शी लोको वर्णानव पदमाभम- न्यमानस्तानेव प्रकारभेदभाजोऽर्थभेदे संकेतयतीत्याह-तस्येति । तस्य पदस्याजानत एकस्यापि संकेतबुद्धितः स्थूलदर्शिलोकहिताय वर्णात्मना विभागः । विभागमाह-एता- वा न न्यूनानामधिकानां वा, एवंजातीयको नैरन्तर्यक्रमविशेषोऽनुसंहार एकबुद्ध्यु- पग्रह एकस्यार्थस्य गोत्वादेर्वाचक इति । ननु यद्यकस्यार्थस्यायं शब्दो वाचक इति संकेतो हन्त भोः शब्दार्थयोर्नेतरतराध्यासस्तीत्यत आह-संकेतस्त्विति । स्मृतावात्मा

  1. =क. ख. मानरुच्चार्यमाणैः श्रु'
  2. =क. ख. ड. च. एतस्या
  3. =ख. झ. पदूषि'