पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
[ ३ विभूतिपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-


तदेतेषामर्थसंकेतेनावच्छिन्नानामुपसंहतध्वनिक्रमाणां य एको
बद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते । तदेकं
पदमेकबुद्धिविषय[१] एकप्रयत्नाक्षिप्तमभागमक्रममवर्ण बौद्ध-

ठभागानुभवेन पदमव्यक्तमनुभूयतेऽनुसंहारधिया तु भागानुभश्योनिसंस्कारलब्धजन्मना व्यक्तमिति विशेषः । अव्यक्तानुभवाश्च प्राञ्चः संस्क.राधानक्रमेण व्यक्तमनुभवमादधाना दृष्टा यथा दुरावनस्पतावस्तिप्रत्ययों[२] अव्यक्ता व्यक्तवनस्पतिप्रत्ययहेतवः । न चेयं विधा वर्णानामर्थप्रत्यायने संभविनी । नो खलु वर्णाः प्रत्येकमव्यक्तमर्थप्रत्ययमादधत्यन्ते व्यक्त- मिति शक्यं वक्तुम् । प्रत्यक्षज्ञान एव नियमाद्वयक्ताव्यक्त वस्य । वर्णाधेयस्वर्थप्रत्ययो न प्रत्यक्षस्तदेष वर्णेभ्यो जायमानः स्फुट एव जायेत । न वा जायेत न त्वस्फुटः । स्फोटस्य तु ध्वनिव्यङ्गयस्य प्रत्यक्षरय सतः स्फुटारफुटत्वे कल्प्येते इत्यसमानम् । एवं प्रत्येकवर्णा- नुभवजनितसंस्कारसहितश्रोत्रलब्धजन्मन्यनुसंह रबुद्धौ संहता वर्णा एकपदस्फोटभावमापन्नाः प्रयत्नविशेषव्यङ्ग्यतया प्रयत्नविशेषस्य च नियतक्रमापेक्षतया क्रमस्यान्यत्वे तदभिव्यज- कप्रयत्नविशेषाभावेन तदभिव्यक्त्यभावप्रसङ्ग क्रमानुरोधिनोऽर्थसंकेतैनावच्छिन्नाः संके. तावच्छेदमेव लौकिक सभागपदविषयं दर्शयन्ति, इयन्तो वित्रास्त्रिचतुराः पञ्चषा वा एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थमवद्योतयन्तीति ।

तकिमिदानों संकेतानुसारेण वर्णनामेव वाचकत्वं तथा च न पदं नाम किंचिदेक- मित्यत आह--तदेतेषामिति । धनिनिमित्तः क्रमो ध्वनिक्रमः । उपसंहृतो धनि- क्रमो येषु ते तथोक्ताः । बुद्धया निर्भास्यते प्रकाश्यत इति बुद्धिनिर्भासः । संवे.ताव- च्छिन्नाः स्थलदर्शिलोकाशयानुरोधेन गकारौकारविसर्जनीया इत्युक्तम् । गकारादी- नामपि तद्भागतया तादात्म्येन वाचकवाप्रतीत्यनुसारतस्त्वेकमेव पदं वाचकमित्यर्थः । एतदेव स्पष्टयति---तदेकं पदं लोकबुद्धया प्रतीयत इति संबन्धः । कस्मादेकमित्यत आह--एकबद्धिविषयो गौरित्येक पदमित्यकाकाराया बुद्धविषयो यतस्तस्मादेकम् । तस्य व्यञ्जकमाह--एकप्रयत्नाक्षिप्तमिति । रस इतिपदव्यञ्जका प्रयत्नाद्विलक्षणः सर इतिपदव्यञ्जकः प्रयत्नः । स चोपक्रमैतः[३] सर इतिपदव्याक्तिलक्षणफल[४] वच्छिन्नः पूर्वा- परीभूत एकस्तदाक्षिप्तं भागानां सादृश्योपधानभेदकल्पितानां परमार्थसतामभावादभागम् । अत एव पूर्वापरीभूतभावादक्रमम् । ननु वर्णाः पूर्वापरीभूतास्ते चास्य भागा इति कथमक्रममभागं चेत्यत आह-अवर्णम् । न सत्य वर्णा भागाः किंतु सादृश्योप.

। ज. क्षणाव ।

  1. =क. स. छ. च. यमेक
  2. =स. न. 'या व्यक्त ।
  3. =क. ख. 'मतो रस इ
  4. =क.ख. क्षणः फ°