पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १७ ]
१३९
पातञ्जलयोगसूत्राणि ।


 

विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसंकेतेना-
वच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविस-
र्जनीयाः सास्नादिमन्तमर्थ द्योतयन्तीति ।

विशेषे गोन्यवाचके गोपदस्फे टेऽवस्थापितोऽनुसंहारबुद्धौ । अयमभिसंधिः-अर्थप्रत्ययो हि वर्णैर्नियतक्रमतया परस्परमसंभवद्भिरशक्यः कर्तुम् । न च संस्कारद्वा[१]रऽऽग्नेयादीना- मिव परमापूर्वे वा स्वर्गे वा जनयितव्येऽनियतकमाणामपि साहित्यमर्थबुद्धयुपजनने वर्णा- नामिति सांप्रतं विकल्पासहत्वात् । स खल्वयं वर्णानुभवजन्यः संस्कारः स्मृतिप्रसवहे- तुरन्यो वाऽऽग्नेयादिजन्य इवापुर्वाभिधानो न तावदनन्तरः कल्पनागौरवापत्तेः । स एव ताबददृष्टपूर्णः कल्पनीयस्तस्य च क्रमवद्भिर्वर्णानुभवैरेकस्य जन्यत्वं न संभवतीति तज्जाती- यानेकावान्तरसंस्कारकल्पनेति गौरवम् । न चैष ज्ञापकहेत्वङ्गमज्ञातस्तदङ्गतामनुभव[२]तीति । न खलु संबन्धोऽर्थप्रत्यायनाङ्गमज्ञातोऽङ्गतामुपैति । स्मृतिफलप्रसवानुमितस्तु संस्कारः स्वकारणानुभवविषयनियतो न विषयान्तरे प्रत्ययमाधातुम सहते । अन्यथा यत्किंचिदेवैकै- कमनुभूय सर्वः स जानीयादिति । न च प्रत्येकवर्णानुभवजनितसंस्कारपिण्डलब्धजन्म. स्मृतिदर्पणसमारोहिणो वर्णाः समधिगतसहभावा वाचका इति सांप्रतम् । क्रमाक्रमवि. परीतक्रमानुभूतानां तत्राविशेषेणार्थवीजननग्रसङ्गात् । न चैतत्स्मरणज्ञानं पूर्वानुभवव. तिनी परापरतां गोचरयितुमर्हति । तस्माद्वर्णेभ्योऽसंभवन्नर्थप्रत्यय एकपदानुभवमेव स्वनि- मित्तमुपकल्पयति । न चैष पदेऽपि प्रसङ्गः । तद्धि प्रत्येकमेव प्रयत्नभेदभिन्ना ध्वनयो व्यञ्जयन्तः परस्परविसदृशतत्तत्पदव्यञ्जकध्वनिभिस्तुल्यस्थानकरणनिष्पन्नाः सदृशाः सन्तोऽ- न्योन्यविसदृशैः पदैः पदमेकं सदृशमापादयन्तः प्रतियोगिभेदेन तत्तत्सादृश्यानां भेदात्त. दुपधानादेकमप्यनवयवमपि सावयवमिवाने कात्मकभिवावभासयन्ति, यथा नियतवर्णपरि- माणसंस्थानं मुखमेकमपि मणिकृपाणदर्पणादयो विभिन्नवर्णपरिमाणसंस्थानमनेकमादर्शयन्ति न परमार्थतः । सादृश्योपधानभेदकाल्पता भागा एव निर्भागस्थ पदस्य वर्णास्तेन तहद्धि. वर्णात्मना पदभेदे स्फोटमभेदभेव निर्भागभेव सभेदमिव सभागमिवाऽऽलम्बते । अते! गे.पदरफोटभेदस्यैकस्य गकारभागो गौरादिपदस्फोटसादृश्येन न निर्धारयति स्वभागिनमि. त्योकारेण विशिष्टो निर्धारयत्येवमोकारोऽपि भागः शोचिरादिपदसदृशतया न शक्तो निधी- रयितुं स्वभागिनं गोपदस्फोटमिति गकारेण विशिष्टो निर्धारयति । असहभाविनामपि च संस्कारद्वारेणास्ति सहभाव इति विशेषणविशेष्यभावोपपत्तिः । न च भिन्नविषयत्वं संस्कारयोर्भागद्वयविषययोरनुभवयोस्तजन्मनोश्च संस्कारयोरेकपदविषयत्वात् । केव. १ २

  1. = ख. ज. दारेगाऽऽग्ने ।
  2. =ज. वति ।