मात्रविषयम् । पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यमिति ।
वर्णा एकसमयासंभवित्वात्परस्परनिरनुग्रहात्मानस्ते पदमसंस्पृश्यानुपस्थाप्याऽऽविर्भूतास्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते ।
वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरंप्रतियोगित्वाद्वैश्वरूप्यमिवाऽऽपन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण
वर्णात्मा तेनाऽऽकारेण परिणतं तन्मात्रविषयं नतु वाचकविषयमित्यर्थः । यथालोकप्रतीतिसिद्धेभ्यो वर्णेभ्यो वाचकं भिनत्ति पदं पुनर्वाचकं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यं यथाप्रतीतिसिद्धान्नादान्वान्प्रत्येकं गृहीत्वाऽनु पश्चाद्या संहरत्येकत्वमापादयति गौरित्येतदेकं पदमिति तया पदं गृह्यते । यद्यपि प्राच्योऽपि बुद्धयो वर्णाकारं पदमेव प्रत्येकं गोचरयन्ति तथाऽपि न विश[१]दं प्रथते । चरमे नु विज्ञाने तदतिविशदमिति नादानुसंहारबुद्धिनिर्ग्राह्यमुक्तम् ।
यस्तु वैजात्यादेकपदानुभवमविज्ञाय वर्णानेव वाचकानातिष्ठते तं प्रत्याह-वर्णा इति । ते खल्वमी वर्णाः प्रत्येकं वाच्यविषयां धियमादधीरन्नागदन्तका इव शिक्यावलम्बनं संहता वा ग्रावाण इव पिठरधारणम् । न तावत्प्रथमः कल्पः । एकस्मादर्थप्रतीतेरनुत्पत्तेरुत्पत्तौ वा द्वितीयादीनामनुवारणप्रसङ्गो निष्पादितक्रिये कर्मणि विशेषानाधायिनः साधनस्य साधनन्यायातिपातात् । तस्माद्वितीयः परिशिष्यते । संभवति हि ग्राव्णां संहतानां पिठरधारणमेकसमयभावित्वात् । वर्णानां तु यौगपद्यासंभवोऽतः परस्परमनुग्राह्यानुग्राहकत्वायोगात्संभूयापि नार्थधियमादधते । ते पदरूपमेकमसंस्पृशन्तस्तादात्म्येनात एवानुपस्थापयन्त आविर्भू[२]तास्तिरोभूता अयःशलाकाकल्पाः प्रत्येकमपदस्वरूपा उच्यन्ते।
यदि पुनः पदमेकं तादात्म्येन स्पृशेयुर्वर्णास्ततो नोक्तदोषप्रसङ्ग इयाह---वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिचितः सर्वाभिरभिधानशक्ति भिर्निचितो गोगणगरनै[३]गेत्यादिषु हि गकारो गोत्वाद्यर्थाभिधायिषु[४] दृष्ट इति तत्तदभिधानशक्तिः । एवं सांमशोचिरेत्यादिष्वीश्वराद्यार्थभिधायिषु पदेष्योवर्णो दृ[५]ष्ट इति सोऽपि तत्तदभिधानशक्तिः । एवं सर्वत्रोहनीयम् । स चेकैको वर्णो गकारादिः सहकारि यद्वर्ण.न्तरमोकरादि तदेव प्रतियोगि प्रतिसंबन्धि यस्[६]य स तथोक्तस्तस्य भावस्तत्त्वं तस्माद्वैश्वरूप्यं नानात्वमिवाऽऽपन्नो नतु नानात्वमापन्नस्तस्य तत्त्वादेव पूर्णे वर्णो गकार उत- रेणौकारेण गणादिपदेभ्यो व्यावर्त्योत्तरश्चैकारो गकारेण शोचिरदिपदेभ्यो व्यावर्त्य