पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू. १६-१७ ]
१३७
पातञ्जलयोगसूत्राणि ।


 अतो योगिन उपात्तसर्वसाधनस्य चुभुत्सितार्थप्रतिपत्तये संपमस्य विषय उपक्षिप्यते-

  परिणामत्रयसंयमादत्ती-   तानागतज्ञानम् ॥१६॥

 

धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानाग-
तज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन
परिणामत्रयं साक्षाक्रियमाणमतीतानागतज्ञानं तेषु संपा-
दयति ॥१६॥

 

शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्त-
त्पविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥
तत्र वाग्वर्णेष्वेवार्थवती । श्रोत्रं च ध्वनिपरिणाम-

तैस्तारिन्द्रियः शरीरप्रदेशेर्वा संप्रयुज्यते । साऽपि तत्संयोगादेवानुमीयते । एवं शक्तिरप्युद्ध तानां कार्याणां सूक्ष्मावस्था चेतसो धर्मस्थलकार्यानुभवादेवानुमीयत इति ॥ १५ ॥  अत: परमा पादपरिसम.ते: संयमविषयस्तद्वीकारसूचनी विभृतिश्च वक्तव्या । तत्रोक्तप्रकार परिणामत्रयमेव तावत्प्रथममुपात्तसकलयोगाङ्गस्य योगिनः संयमविषयतयोग. क्षिपति-परिणामत्रयसंयमादतीतानागतज्ञानम् । ननु यत्र संयमरतत्रैव साक्षात्क- रगं तत्कथं परिणामत्रयसंयमोऽतीतानागतं साक्षात्कारयेदित्यत आह-तेन परिणामत्रयं साक्षाक्रियमाणं तेष परिणामेष्वनुगते ये अतीतानागते तद्विषयं ज्ञानं संपादयति । परिणामत्रयसाक्षात्करणमेव तदन्तर्भूतातीतानागतसाक्षात्करणात्मकमिति न विषयभेदः संयमसाक्षात्कारयोरित्यर्थः ॥ १६ ॥

 अयमपरः संयमस्य विषय उपक्षप्यते---शब्दार्थप्रत्ययानामितरतराध्यासात्सं. करस्त प्रविभागलंयमात्सवेभूतरुतज्ञानम् । अत्र वाचकं शब्दमाचिख्यासुः प्रथम तावद्वाग्व्यापारविषयमाह ---तत्र वाग्वागिन्द्रियं वर्णव्यञ्जकमष्टस्थानम् ।

यथाऽऽह- अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।  जिह्वामूलं च दन्ताश्च नामि[१]कोष्ठौ च तालु च"    पाणि०शि०१३ ] इति ॥  सा पावर्णेयेव यथालेकप्रतातिसिद्धेष्वर्थवती नच वाचक इत्यर्थः । श्रीत्रव्यापार- विषयं निरूपयति----श्रोत्रं पुनर्धनेरुदा[२]नस्य वागिन्द्रियाभिघातिनो यः परिणतिभेदो

  1. =ज. कौ च ।
  2. =क. दातस्य ।