पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३६ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे- त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवत्यन्यधर्मेस्वरूपापेक्षयति । यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते। चित्तस्य द्वये धर्मा परिदृष्टाश्चापरिदृष्टाश्च । तत्र प्रत्यया- त्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवन्त्यनुमानेन प्रापितवस्तुमात्रसद्भावाः । “निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः" इति ॥ १५ ॥ तदिदं क्रमान्यत्वं धर्मधर्मिभेदपक्ष एवेत्याह-त एत इति । आ विकारेभ्य आ चालिङ्गादापेक्षिको धर्मधर्मिभावो मृदादेरपि तन्मात्रापेक्षया धर्मत्वादित्याह –धर्मोऽपीति । यदा परमार्थधर्मिण्यलिङ्गेऽभेदोपचारप्रयोगस्तद्द्वारेण सामानाधिकरण्यद्वारेण धर्म्येव धर्म इति यावत् । तदैक एव परिणामो धर्मिपरिणाम एवेत्यर्थः । धर्मलक्षणावस्थानां धर्मिस्वरूपाभिनिवेशात् । तदनेन धर्मिणो दूरोत्सारितं कूटस्थनित्यत्वमित्युक्तप्रायम् । धर्मपरिणामं प्रतिपादयन्प्रसङ्गेन चित्तधर्माणां प्रकारभेदमाह-वित्तस्येति । परिदृष्टाः प्रत्यक्षा अपरिदृष्टाः परोक्षास्तत्र प्रत्ययात्मकाः प्रमाणादयो रागादयश्च । वस्तुमात्रा इत्यप्रकाशरूपतामाह । स्यादेतदपरिदृष्टाश्वेन्न सत्येवेत्यत आह-अनुमानेन प्रापितो वस्तुमात्रेण सद्भावो येषां ते तथोक्ताः । पश्चान्मानसाधादागमोऽप्यनुमानम् । सप्तापरिदृष्टान्कारिकया संगृह्णाति-निरोधेति । निरोधो वृत्तीनामसंप्रज्ञातावस्था चित्तस्याऽऽगमतः संस्कारशेषभावोऽनुमानतश्च समधिगम्यते । धर्मग्रहणेन पुण्यापुण्ये उपलक्षयति ! क्वचित्कर्मेति पाठस्तत्रापि तज्जनिते पुण्यापुण्ये एव गृह्येते । ते चाऽऽगमतः सुखदुःखोपभोगदर्शनाद्वाऽनुमानतो गम्येते । संस्कारस्तु स्मृतेरनुमीयते । एवं त्रिगुणत्वाच्चि तस्य चलं च गुणवृत्तमिति प्रतिक्षणं परिणामोऽनुमीयते । एवं जीवनं प्राणधारणं प्रयत्नभेदोऽ- संविदितश्चित्तस्य धर्मः श्वासप्रश्वासाभ्यामनुमीयते । एवं चेतसश्चेष्टा क्रिया यथा यथा

  • क. पुस्तके-'दयः । निरोधादयस्तु ब° इति पाठो वर्तते, स प्रामादिकः ।

१ ख. घ. इ. च. रबारे । २ ख दमपेक्षन इत्या । झ. दमपेक्षत र°। ३ क. ख. स. आ चलि°४ ज. तो ध । ५ ज. धर्मप। ६ ख. धर्मस्व' । ७ क. ज. स.