पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू. १५] पातञ्जलयोगसूत्राणि। १३५ एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति । तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपा- लमृत्कणमृदिति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावः क्रमः । तथा पिण्डस्य वर्तमानभावादतीतभावः क्रमः । नातीतस्यास्ति क्रमः । कस्मात् । पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्यतीतस्य । तस्माद्वयोरेव लक्षणयोः क्रमः । तथाऽवस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति । द्धर्मिण एक एव परिणामः । नहि एकरूपाकारणात्कार्यभेदो भवितुमर्हति तस्याऽऽकस्मिकत्वप्रसङ्गादित्येवं प्राप्त उच्यते-क्रमान्यत्वात्परिणामान्यत्वम् । एकस्या मृदश्चूर्णपिण्डघटकपालकणाकारा परिणतिपरम्परा क्रमवती लौकिकपरीक्षकैरध्यक्षं समीक्ष्यते । अन्यच्चेदं चूर्णपिण्डयोरानन्तर्यमन्यञ्च पिण्डघटयोरन्यच्च घटकपालयोरन्यच्च कपालकणयोरेकत्र परस्यान्वत्र पूर्वत्वात् । सोऽयं क्रमभेदः परिणाम एकस्मिन्नवकल्पमानः परिणामभेदमापादयति । एकोऽपि च मृद्धर्मी क्रमोपनिपातितत्तत्सहकारिसमवधानक्रमेण क्रमवर्ती परिणामपरम्परामुद्रहन्तैनामाकस्मिकयतीति भावः । धर्मपरिणामान्यत्ववल्लक्षणपरिणामान्यत्वेऽवथापरिणामान्यत्वे च समान क्रमान्यत्वं हेतुरिति । तदेतद्भाष्येणावद्योत्यते-एकस्य धर्मिण इति । क्रमक्रमवतोरभेदमास्थाय स तस्य क्रम इत्युक्तम् । तथाऽवस्थापरिणामक्रम इति । तथाहि-कीनाशेन कोष्ठागारे प्रयत्नसंरक्षिता अपि हि व्रीहयो हायनैरतिबहुभिः पाणिस्पर्शमात्रविशीर्यमाणावयवसंस्थानाः परमाणुभावमनुभवन्तो दृश्यन्ते । न चायमभिनानामकस्मादेव प्रादुर्भवितुमर्हति । तस्मात्क्षणपरम्पराक्रमेण सूक्ष्मसूक्ष्मतरसूक्ष्म- तमबृहबृहत्तरबृहत्तमादिक्रमेण प्राप्तेषु विशिष्टोऽयं लक्ष्यत इति । १८. ख. घ. उ. °सके क । २ ख. म. भावक' । ३ ख. ग. भावक' ४ झ. लव १५ क. स्थानाञ्च प°१६ क. 'वानक।