पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
[३ विभूतिपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वित्येवं जात्यनुच्छेदेन सर्व सर्वात्मकमिति ।

 

देशकालाकारनिमित्तापबन्धान खलु समानकालमात्मनाम-
भिव्यक्तिरिति । य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती
सामान्यविशेषात्मा सोऽन्वयी धर्मी । यस्य तु धर्ममात्रमेवेदं
निरत्वयं तस्य भोगाभावः । कस्मात् , अन्येन विज्ञानेन कृतस्य
कर्मणोऽन्यत्कथं भोक्तृत्वेनाधिक्रियेत । तत्स्मृत्यभावश्च नाय
दृष्टस्य स्मरणमन्यस्यास्तीति । वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी
धर्मी को धर्मान्ययात्वमभ्युपगतः प्रत्यभिज्ञायते । तस्मान्नेदं
धर्ममात्र निरन्वयमिति ॥१४॥

 

क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥


फलानि तालफलमात्राणि भवन्ति । उपसंहरति- एवं सर्व जलभूम्यादि सर्वरसाद्यात्म. कम् । तत्र हेतुमाह -जात्यनुच्छेदेन जलत्वभूमित्वादिजातेः सर्वत्र प्रत्यभिज्ञायमान- वेनानुच्छेदात् ।

  ननु सर्व चेत्सर्वात्मकं हन्त भोः सर्वस्य सर्वदा सर्वत्र सर्वथा संनिधानासमानकोलं भावानां व्यक्तिः प्रसज्येत, न खलु संनिहिताविकलकारणं कार्य विलम्बितुमर्हतीत्यत आह- देशकालति । यद्यपि कारणं सर्व सर्वात्मकं तथाऽपि यो यस्य कार्यस्य देशो यथा कुङ्कुमस्य काश्मीरः । तेषां सत्वेऽपि पाञ्चालादिषु न समुदाचार इति न कुङ्कु- मस्य पाञ्चालादिष्वभिव्यक्तिः । एवं निदाघे न प्रावृषः समुदाचार इति न तदा शाली- नाम् । एवं न मृगी मनुष्यं प्रसूते न तस्यां मनुष्याकारसमुदाचार इति । एवं नापुण्य. वान्सुखरूपं भुङ्क्ते न तस्मिन्पुण्यनिमित्तस्य समुदाचार इति । तस्माद्देशकालाकारनिमित्ता- नामपबन्धादपगमान्न समानकालमात्मनां भावानामभिव्यक्तिरिति । तदेवं धर्मान्विभज्य तेषु धर्मिणोऽनुगमं दर्शयति --य एतेष्विति । सामान्यं धर्मिरूपं विशेषो धर्मस्तदा- मोभयात्मक इत्यर्थः । तदेवमनुगतं धर्मिणं दर्शयित्वा तमनिच्छतो वैनाशिकस्य क्षणिक विज्ञानमात्रं चित्तमिच्छतोऽनिष्टप्रसङ्गमुक्तं स्मारयति -यस्य त्विति । वस्तुप्रत्यभिज्ञाना- चेति । नहि देवदत्तेन दृष्टं यज्ञदत्तः प्रत्यभिजानाति । तस्माद्यश्चानुभविता स एव प्रत्य- भिज्ञातेति ॥ १४ ॥

  क्रमान्यत्वं परिणामान्यत्वे हेतुः । किमकस्य धर्मिण एक एव धर्मलक्षणावस्था- लक्षणः परिणाम उत बहवो धर्मलक्षणावस्थालक्षणाः परिणामाः । तत्र किं प्राप्तमेकत्वा.


[१]

  1. क. म. तिवमिति । २ क. 'काला भा । झ. कालीना भा । ३ ज. हित- सक।४ क.ज. तस्या।