पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू. १६]
१३३.
पातञ्जलयोगसूत्राणि

। .  तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्या- चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास्ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वप- श्चिमताया अभावात् । यथाऽनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य । तस्मानातीतस्यास्ति सरनन्तरः। तदनांगत एव समनन्तरो भवति वर्तमानस्येति । अथाव्यपदेश्याः के । सर्व सर्वात्मकमिति । यत्रोक्तम्-जल- भूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । तथ

तदेवं धर्माणां भेदसाधनमभिधाय तं भेदं विभजते[१]-तत्र ये खल्विति । उदिता इति वर्तमाना इत्यर्थः । अध्वनां पौर्वापर्य[२] नियमयति-ते चेति । चोदयति- किमर्थमिति । किनिमित्तमतीतस्यानन्तरा न भवन्ति वर्तमानाः । हेतुमाहै[३] सिद्धान्ती- पूर्वपश्चिमताया अभावात । विषयेण विषयिणीमनुपलब्धि सूचयति । अनुपलम्भ- मेवोपलम्भवैधयेण दर्शयति-यथाऽनागतवर्तमानयोरिति । उपसंहरति-[४] दनागत एवं समनन्तरः पूर्वत्वेन भवति वर्तमानस्य नातीतः । अतीतस्य वर्तमानः पूर्वत्वेन समनन्तरो नाव्यपदेश्यः[५]। तस्मादध्वनां यविष्ठोऽतीत इति सिद्धम् ।

स्यादेतदनुभयमानानुभूततयोदितातीतौ शक्यावन्नेतुमव्यपदेश्यास्तु पुनर्धर्मा अध्यप. देश्यतयैवं शक्या नोन्नेतुमित्याशयवान्पृच्छति-अथाव्यपदेश्याः के केषु समीक्षामहे । अत्रोत्तरमाह---सर्वं सर्वात्मकमिति । यत्रोक्तमिति[६]। तदेवोपपादयति-जलभू- भ्योरिति । जलस्य हि रसरूपस्पर्शशब्दवतो भुमेश्च गन्धरसरूपस्पर्शशब्द- वत्याः पारिणामिकं वनस्पतिलतागुल्मादिषु मूलफलप्रसवपल्वादिगतरसादिवैश्वरूप्यं दृष्टम् । सोऽयमनेवमात्मिकाया भूमेरनीदृशस्य वा जलस्य न परिणामो भवितुमर्हति । उपपादितं हि नासदुत्पद्यत इति । तथा स्थावराणां पारिणामिकं जङ्गमेषु मनुष्यपशु- मृगादिषु रसादिवैचित्र्यं दृष्टम् । उपयुञ्जाना हि ते फलादीनि रूपादिभेदसंपदमासाद- यन्ति । एवं जङ्गमान पारिणामिकं स्थावरेषु दृष्टम् । रुधिरावसेकास्किल दाडिमी.

. १ 3.1 ते त्रयः ख । २.

४  । ५ । त। ६  । एतौं ।
  1. =ग.त्र त्रयः ख।
  2. = झ. निगम । ३ क. ज. झ.
  3. =ह-पु°1
  4. =क. ज. तस्मातत्तस्मा-
  5. =ज. 'देश्य इत्युक्तम्
  6. =क. झ. ति