पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ . वाचस्पतिकृतटीकासंचलितव्यासभाष्यसमेतानि- [ ३ विभूतिपादे- स्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः सर्वानमून्विशेषानभिप्लवते । अथ कोऽयं परिणामः। अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पतिः परिणाम इति ॥ १३ ॥ तत्र- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च फलप्रसवभेदानुमित एकस्यान्योऽन्यश्च परिदृष्टः । तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मी धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत । णामलक्षणमाह--अवस्थितस्य द्रव्यस्यति । धर्मशब्द आश्रितत्वेन धर्मलक्षणावस्थावाचकः ॥ १३ ॥ यस्यैष त्रिविधः परिणामस्तं धर्मिणं सूत्रेण लक्षयति-तत्र-शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । धर्मोऽस्यास्तीति धर्माति नाविज्ञाते धर्मे स शक्यो ज्ञातुमिति धर्म दर्शयति-योग्यतेति । धर्मिणो द्रव्यस्य मृदादेः शक्तिरेव चूर्णपिण्डघटाद्युत्पत्तिशक्तिरेव धर्मस्तेषां तत्राव्यक्तत्वेन भाव इति यावत् । नन्वेवमव्यक्ततया सन्तस्ते ततः प्रादुर्भवन्तु । उदकाहरणादयस्तु तैः स्वकारणादनासादिताः कुतः प्राप्ता इत्यत उक्त-योग्यसावच्छिन्नेति । याऽसौ घटादीनामुत्पत्तिशक्तिः सोदकाहरणादियोग्यतावच्छिन्ना, तेनोदकाहरणादयोऽपि घटादिभिः स्वकारणादेव प्राप्ता इति नाऽऽकस्मिका इति भावः । अथवा के धर्मिण इत्यत्रोत्तरं-योग्यतावच्छिन्ना धर्मिण इति । को धर्म इत्यत्रोत्तरं शक्तिरेव धर्मस्तेषां योग्यतैव धर्म इत्यर्थः । अतस्तद्वान्धर्मीति सिद्धं भवति । तत्सद्भावे प्रमाणमाह--स च फलमसवभेदानुमित एकस्य धर्मिणोऽन्यश्वान्यश्च चूर्णपिण्डघटादिरूप इत्यर्थः । कार्यभेददर्शनाच्च भिन्न इति यावत् । परिदृष्ट उपलब्धः । तत्रानुभकारोहिणो वर्तमानस्य मृत्पिण्डस्य शान्ताव्यपदेश्याभ्यां मृच्चूर्णमृद्धटाभ्यां भेदमाह-तत्र वर्तमान इति । यदि न भिद्येत पिण्डवच्चूर्णघटयोरपि तद्वदेव स्वव्यापारव्याप्तिप्रसङ्ग इति भावः । अव्यक्तस्य तु पिण्डस्य नोक्तं भेदसाधनं संभवतीत्याह---यदा त्विति । कोऽसौ केन भेदसाधनेन भिद्यतेति। क. ग. प. उ. च. तसद्भाव र । २ क, च. 'न्यस्याभ्यश्च । ३ क. यदर्शनात्का. भौ । ५ ज. नात्तत्तत्कार्यदर्शनाच । ५ क. "त ताई पि ।