पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १३]
१३१
पातञ्जलयोगसूत्राणि।
नासौ दोषः । कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्द-
वैचित्र्यात् । यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणाना
विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां
विनाश्यविनाशिनां तस्मिन्विकारसंज्ञेति ।
' तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसंपद्य-
मानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं
हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते ।
घटो नवपुराणतयं प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत
इति । धर्मिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमय-

मानः । यदा कृत्वा निवृत्तः सन्नेव स्वव्यापाराद्दाधिकाद्यारम्भात्तदाऽतीत इति । एवं त्रैकाल्येऽपि सत्त्वाद्धर्मधर्मिणोलक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोति । सर्वदा सत्ता हि नित्यत्वं, चतुणामपि च सर्वदा सत्वेऽसत्ये वा नोत्पादः, तावन्मात्रं च लक्षणं कूटस्थ. नित्यतायाः । नहि चितिशक्तेरपि कूटस्थनित्यायाः कश्चिदन्यो विशेष इति भावः ।

पारिहरति–नासौ दोषः,कस्माद्गुणिनित्यत्वेऽपि गुणानां विमर्दोऽन्योन्याभि- भाव्याभिभावकत्वं तस्य वैचित्र्यात् । एतदुक्तं भवति– यद्यपि सर्वदा सत्त्वं चतुर्णामपि[१] गुणिगुणानां तथाऽपि गुणविमर्दवैचित्र्येण तदात्मभूततद्विकाराविर्भावतिरोभावभेदेन परि- णामशालितया न कौटस्थ्यम् । चितिशक्तेस्तु न स्वात्मभूतविकाराविर्भावतिरोभाव इति कौटस्थ्यम् ।

यथाऽऽहु:--"नित्यं तमाहुर्विद्वांसो यत्स्वभावो न नश्यति" इति ।

विमर्दवैचित्र्यमेव विकारवैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति—यथा संस्थान पृथिव्यादिपरिणामलक्षणमादिमद्धर्ममात्रं विनाशि तिरोभावि शब्दादीनां शब्दस्पर्श रूपरसगन्धतन्मात्राणां स्वकार्यमपेक्ष्याविनाशिनामतिरोभाविनाम् । प्रकृती दर्शयति- एवं लिङ्गमिति । तस्मिन्विकारसंज्ञा न त्वेवं विकारवती चितिशक्तिरिति भावः |

तदेवं परीक्षकसिद्धां विकृति प्रकृति चोदाहृत्य विकृतावेव लोकसिद्धायां गुणविमर्दवै. चिन्यं धर्मलक्षणावस्थापरिणामवैचित्र्यहेतुमदाहरति--तत्रेदमुदाहरणमिति । न चायं नियमो लक्षणानामेवावस्थापरिणाम इति । सर्वेषामेव. धर्मलक्षणावस्थाभेदानामवस्थाशब्द-

वाच्यत्वादेक एवावस्थापरिणामः सर्वसाधारण इसाह--धर्मिणोऽपीति । व्यापकं परि-


१ ग. प. अ. च. नां वि° ५२ ख. नित्यतायां क । ४ ख. गुण ।

  1. ३ ज. प त